पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे स्कराग्निसमुद्भवाः । ताः सर्वाः प्रशमं यांति व्यासो न संशयः ॥ १२ ॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम् ॥ ३५८ १७२. नवनागस्तोत्रम् | श्रीगणेशाय नमः ॥ अनंतं वासुकिं शेषं पद्मनाभं च कंब- लम् | शंखपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १ ॥ एतानि नव नामानि नागानां च महात्मनाम् । सायं- काले पठेन्नित्यं प्रातःकाले विशेषतः | तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ २ ॥ इति श्रीनवनाग- स्तोत्रं संपूर्णम् ॥ । १७३. शनिस्तोत्रम् । श्रीगणेशाय नमः ॥ अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप्छंदः । शनैश्चरप्रीत्यर्थं जपे विनियोगः । दशरथ उवाच । कोणोंडतको रौद्यमोऽथ बभ्रुः कृष्णः शनि: पिंगलमंदसौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनंदनाय ॥ १ ॥ सुरा- सुराः किंपुरुषोरगेंद्रा गंधर्वविद्याधरपन्नगाश्च | पीड्यंति सर्वे विषम स्थितेन तस्मै नमः श्रीरविनंदनाय ॥ २ ॥ नरा नरेंद्राः पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृंगाः । पीड्यंत सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय