पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ बृहत्स्तोत्ररत्नाकरे गंधो रम्यस्याभरणं कुतः । नित्यतृप्तस्य नैवेद्यस्तांबूलं च कुतो विभोः ॥ ३ ॥ प्रदक्षिणा ह्यनंतस्य ह्यद्वयस्य कुतो नतिः । वेदवाक्यैरवेद्यस्य कुतः स्तोत्रं विधीयते ॥ ४ ॥ स्वयं प्रकाशमानस्य कुतो नीराजनं विभोः । अंतर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत् ॥ ५ ॥ एवमेव परा पूजा सर्वावस्थासु सर्वदा । एकबुद्ध्या तु देवेशे विधेया ब्रह्म- वित्तमैः ॥ ६ ॥ इति परापूजा समाप्ता ||