पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० बृहत्स्तोत्ररलाकरे तिज्ञाय श्रुतिस्तत्सिद्धये जगौ । तत्कार्यत्वं प्रपंचस्य तत्र- लेत्यवधारय || ३३ || विजिज्ञास्यतया यच्च वेदांतेषु मु सुक्षुभिः | समर्थ्यतेऽतियत्तेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥ जीवात्मना प्रवेशश्च नियंतृत्वं च तानू प्रति । श्रूयते यस्य वेदेषु तमोत्यवधारय |॥ ३५ ॥ कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतु कर्तृत्वं तद्ब्रह्मेत्यवधा- रय || ३६ ॥ तवंपदार्थों निर्णीतौ वाक्यार्थश्चित्यतेऽधु- ना | तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥३७॥ संसर्गो वा विशिष्टो वा वाक्यार्थी नात्र संमतः । अखंडै- करसत्वेन वाक्यार्थी विदुषां मतः ॥ ३८ ॥ प्रत्यग्बोधो य आभाति सोऽद्वयानंदलक्षणः | अद्वयानंदरूपश्च प्र. सम्बोधैकलक्षणः ॥ ३९ ॥ इत्थमन्योन्यतादात्म्यप्रतिप- त्तिर्यदा भवेत् | अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४० ॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानंदैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१ ॥ तत्त्वमस्या- दिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्त्वंपदार्थों द्वावुपादाय प्रवर्तते ॥ ४२ ॥ हित्वा हौ शबलो वाच्य वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिस्तथा व्या ख्यातमादरात् ॥ ४३ ॥ आलंबनतया भाति योऽस्मन- त्ययशब्दयोः | अंतःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥४४॥ मायोपाधिजंगद्योनिः सर्वज्ञत्वादिलक्षणः । पा d