पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ बृहत्स्तोत्ररलाकरें चाक्यं वा कथं तत्प्रतिपादयेत् ॥ ७ ॥ अत्र ब्रूमः समा- धानं कोन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि मां कोहं ब्रह्मैवासि न संशयः ॥ ८ ॥ पदार्थमेव जानामि नाद्यापि भगवन् स्फुटम् । अहं ब्रह्मेति वाक्यार्थी प्रतिपद्ये कथं वद ॥ ९ ॥ सत्यमाह भवानत्र विज्ञानं नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥ अंतःकरण- तद्वृत्तिसाक्षी चैतन्यविग्रहः । आनंदरूपः सत्यः सन् किं नात्मानं प्रपद्यसे ॥ ११ ॥ सत्यानंदस्वरूपं धीसाक्षि- णं वोधविग्रहम् | चिंतयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२॥ रूपादिमान्यतः पिंडस्ततो नात्मा घटादि- वत् । वियदादिमहाभूतविकारत्वाच्च कुंभवत् ॥ १३ ॥ अनात्मा यदि पिण्डोयमुक्त हेतुबलान्मतः । करामलकव- त्साक्षादात्मानं प्रतिपादय ॥ १४ ॥ घटद्वष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तथा देहो नाहमित्यव- धारय ॥१५॥ एवमिंद्वियदृङ्ना हमिंद्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६ ॥ संघा- तो हि तथा नाहमिति दृश्यविलक्षणम् | द्रष्टारमनुमानेन निपुणं संप्रधारय || १७ || देहेंद्रियादयो भावा हाना- दिव्या प्रतिक्षमाः । यस्य सन्निधिमात्रेण सोहमित्यवधा- रय ॥ १८ ॥ अन्नापन्नविकार: सन्नयस्कांतवदेव यः । वृद्ध्यादींचालये प्रत्यक् सोहमित्यवधारय ॥ १९ ॥ अजडा-