पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | विषया भांति स्वतोऽचेतनाः । तां भास्यैः पिहितार्कर्म- डलनिभां स्फूर्ति सदा भावयन्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ८ ॥ यत्सौख्यांबुधिलेशलेशत इमे शऋादयो निर्वृता यश्चित्ते नितरां प्रशांतकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन्नित्यसुखांबुधौ गलितधी- ब्रह्मेव न ब्रह्मविद्यः कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा मम ॥ ९ ॥ इति मनीपापंचकं संपूर्णम् || १६६. वाक्यवृत्तिः । श्रीगणेशाय नमः ॥ सर्गस्थितिप्रलय हेतुमचित्यशक्ति विश्वेश्वरं विदितविश्वमनंतमूर्तिम् । निर्मुक्तबंधनमपारसु- खांबुराशिं श्रीवल्लभं विमलबोधघनं नमामि ॥ १ ॥ यस्य प्रसादादहमेव विष्णुर्मय्येव सर्व परिकल्पितं च । इत्थं विजानामि सदात्मरूपस्तस्यांत्रिपद्मं प्रणतोस्मि नित्यम् ॥ २ ॥ तापत्रयार्कसंतप्तः कश्चिदुद्विमानसः | शमादि- साधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥ अनायासेन येना- स्मान्मुच्येयं भवबंधनात् । तन्मे संक्षिप्य भगवन्कैव- व्यं कृपया वद ॥४॥ साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५ ॥ तत्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः । ता- दात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६॥ को जीवः कः परश्वात्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादि- 440