पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि । ३४१ अज्ञानान्मनसोपाधेः कर्तृत्वादीनि चात्मनि । कल्प्यंतेंऽबु- गते चंद्रे चलनादि यथांभसः ॥ २१ ॥ रागेच्छासुखदुःखा- दि बुद्धौ सत्यां प्रवर्तते । सुपुतौ नास्ति तन्नाशे तस्माडु- देस्तु नात्मनः ॥ २२ ॥ प्रकाशोऽर्कस्य तोयस्य शैत्यम- मेर्यथोष्णता | स्वभावः सच्चिदानंदनित्यनिर्मलतात्मनः ॥ २३ ॥ आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २४ ॥ आ- त्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति । जीवः स र्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति ॥ २५ ॥ रजुसर्पवदा- त्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातं चेन्निर्भयो भवेत् ॥ २६ ॥ आत्मावभासयत्येको बुद्ध्यादीनींद्रियाणि हि । दीपो घटादिवत्स्वात्मा जडैस्तै- नवभास्यते ॥ २७ ॥ स्वबोधे नान्यबोधेच्छा बोधरूपत- यात्मनः । न दीपस्यान्यदीपेच्छा यथा स्वात्मा प्रकाशते ॥ २८ ॥ निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ २९ ॥ आवि- द्यकं शरीरादि दृश्यं बुद्बुदवाक्षरम् । एतद्विलक्षणं विद्या- दहं ब्रह्मेति निर्मलम् ॥ ३० ॥ देहान्यत्वान्न मे जन्म जराकार्यलयादयः । दाविषयैः संगो निरिंद्रियतया न च ॥ ३१ ॥ अमनस्त्वान्न मे दुःखरागद्वेषभयादयः । अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥ ३२ ॥ नि- -