पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पांडुरंगस्तोत्रम् | १३९. पांडुरंगाष्टकम् । श्रीगणेशाय नमः ॥ महायोगपीठे तटे भीमरथ्यां वरं पुंड- रीकाय दातुं मुनींद्रैः । समागत्य तिष्ठंतमानंदकंद परत्र- ह्यलिंगं भजे पांडुरंगम् ॥ १ ॥ तडिद्वाससं नीलमेघाव- भासं रमामंदिरं सुंदरं चित्प्रकाशम् । वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगम् ॥२॥ प्रमाणं भवाब्धेरिदं मामकानां नितंबः कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिंग भजे पांडुरंगम् ॥३॥ स्फुरस्कौस्तुभालंकृतं कंठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् । शिवं शांतमीड्यं वरं लोक- पालं परब्रह्मरूपं भजे पांडुरंगम् ॥ ४ ॥ शरच्चंद्रबिंबा- ननं चारुहास लसकुंडलाक्रांतगंडस्थलांगम् । नपारा- गबिंबाधरं कंजनेत्रं परब्रह्मलिंगं भजे पांडुरंगम् ॥ ५ ॥ किरीटोजवलत्सर्वदिक्प्रांतभागं सुरैरर्चितं दिव्यरखैर- नध्यैः । त्रिभंगाकृतिं बर्हमाल्यावतंसं परब्रह्मलिंगं भजे पांडुरंगम् ॥ ६ ॥ विभुं वेणुनादं चरंतं दुरंतं स्वयं ली- ल्या गोपवेषं दधानम् | गवां वृंदकानंदनं चारुहासं परब्रह्मलिंगं भजे पांडुरंगम् ॥ ७ ॥ अजं रुक्मिणीप्राण- संजीवनं सं परं धाम कैवल्यमेकं तुरीयम् । प्रसनं प्रसन्ना- -