पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । कुंदशाखाम् । सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः कामी कश्चित्करकमलयोरंजलिं याचमानः ॥२१॥ इत्यन- न्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन् | दिव्य- वेणुरसिकै: समीक्षते दैवतं किमपि यौवतप्रियम् ॥२२॥ इति गोपालविंशतिः संपूर्णा ॥ १३५. श्रीगोविंदाष्टकम् । श्रीगणेशाय नमः ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामानाथम- नाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥ मृत्स्नामसी- हेति यशोदाताडनशैशवसंत्रास व्यादितवकालोकितलो- कालोकचतुर्दशलोकालम् | लोकत्रयपुरमूलस्तम्भं लोका- लोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमा नन्दम् ॥ २ ॥ त्रैविष्टपरिपुवीरनं क्षितिभारनं भवरोगघ्नं कैवल्यंनवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फु- टचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रण- मत गोविन्दं परमानन्दम् ॥ ३ ॥ गोपालं भूलीलावि- ग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनटतिलीला- लालितगोपालम् । गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ ४ ॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्रो- १ पाठान्तरं मृत्स्नामत्सि किमीह. २९७ A