पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | सदा घ्राणं गोविंदायेति जिह्निकाम् ॥११॥ गोपीजनप- दवल्लभाय स्वाहाननं मम । अष्टादशाक्षरो मंत्रः कंठं पातु दशाक्षरः ॥१२॥ गोपीजनपदवल्लभाय स्वाहा भुज- द्वयम् । क्लीं ग्लौं क्लीं श्यामलांगाय नमः स्कंधौ दशाक्षरः ॥१३॥ क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु । हृदयं भुवनेशानः क्लीं कृष्णः कीं स्तनौ मम ॥ १४ ॥ गोपालायाग्निजायांतं कुक्षियुग्मं सदाऽवतु | कीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥ १५ ॥ कृष्णगोविंदकौ पातां स्मरायौ डेयुतौ मनुः । अष्टाक्षरः पातु नाभिं कृ- ष्णेति व्यक्षरोऽवतु ॥ १६ ॥ पृष्टं कीं कृष्णकं गलं कीं कृष्णाय द्विान्तकः । सक्थिनी सततं पातु श्रीं ह्रीं क्रीं कृष्णठद्वयम् ॥१७॥ ऊरू सप्ताक्षरः पायात्रयोदशाक्षरो- ऽवतु । श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभदन्ततः ॥१८॥ भाय स्वाहेति पायुं वैक्लीं ह्रीं श्रीं सदशार्णकः । जानुनी च सदा पातु हीं श्रीं क्लीं च दशाक्षरः ॥ १९ ॥ त्रयो दशाक्षरः पातु जंबे चक्रायुदायुधः । अष्टादशाक्षरो ह्रीं श्रीं- पूर्वको विंशदर्णकः ॥ २० ॥ सर्वांगं मे सदा पातु द्वार- कानायको बली। नमो भगवते पश्चाद्वासुदेवाय तत्परम् ||२१|| ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु । श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥२२॥ गदाधुदायुधो विष्णुर्मानेर्दिशि रक्षतु | नहीं श्रीं दशा-