पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । रुचिरगतिभंगः शशिमुखः । नराकारो रामो यतिपतिनुतः संस्मृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४ ॥ विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं स- हस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै । कलौ के गाय- तीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५ ॥ परो धीरोऽधीरोऽसुरकुलभव- तु श्वासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः । अह- ल्याशापघ्नः शरकर अजः कौशिकसखा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥६॥ हृषीकेशः शौरिर्धरणिधर- शायी मधुरिपुरुपेंद्रो वैकुंठो गजरिपुहरस्तुष्टमनसः । बलि- ध्वंसी वीरो दशरथसुतो नीतिनिपुणो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७ ॥ कविः सौमित्रीड्य: कपटमृगघाती वनचरो रणश्लाघी दांतो धरणिभरहती सुरनुतः । अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८ ॥ इदं रामस्तोत्रं वरममरदासेन रचितमुषःकाले भक्त्या यदि पठति यो भावसहितम् । मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम् ॥ ९॥ इति श्रीमद्रामदास पूज्यपादशिष्य श्रीमहंसदासशिष्येणा- मरदासाख्यकविना विरचित्वं श्रीमद्रामचंद्राष्टकं समाप्तम् ११४. श्रीसीतारामाष्टकम् । श्रीः । ब्रह्ममहेंद्र सुरेंद्र मरुद्गणरुद्रमुनींद्रगणैरतिरम्यं क्षीरस-