पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे वाचामविषयः पुमान् | वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥ कार्यकारणकर्तृत्व फलसाधनभेदतः । एको विभासि रामस्त्वं मायया बहुरूपया ॥ १२ ॥ त्व न्मायामोहितधियस्त्वां न जानंति तत्वतः । मानुषं त्वाभिमन्यंते मायिनं परमेश्वरम् ॥ १३ ॥ आकाशववं सर्वत्र बहिरंतर्गतोऽमलः । असंगो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥ योषिन्मूढाहमज्ञा ते तत्वं जाने कथं विभो । तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५॥ देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा । स्व- त्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥ नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल | नमस्तेऽस्तु हृषीकेश ना- रायण नमोस्तु ते ॥ १७ ॥ भवभयहरमेकं भानुकोटि- प्रकाशं करटतशरचापं कालमेघावभासम् | कनकरुचिर- वस्त्रं रत्नवस्कुंडलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥१८॥ स्तुत्वैवं पुरुषं साक्षाद्वाघवं पुरतः स्थितम् । परि- कम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥ अह- यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः । स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥ पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च । संवत्सरेण लभते वंध्या अपि सुपुत्र- कम् ॥२१॥ सर्वान्कामानवाप्नोति रामचंद्रप्रसादतः ॥ २२ ॥ ब्रह्मनो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मातृ- २५८