पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ बृहत्स्तोत्ररत्नाकरे णं तथा ॥८०॥ त्वत्पादांभोरुहद्वंद्वसद्भक्तिं देहि राघव । ततः परमसंप्रीतः स रामः प्राह नारदम् ॥८१॥ श्रीराम उवाच | मुनिवर्य महाभाग मुने त्विष्टं ददामि ते । य- वया चेप्सितं सर्व मनसा तद्भविष्यति ॥ ८२ ॥ नारद उवाच । वरं न याचे रघुनाथ युष्मत्पादाजभक्तिः सततं ममास्तु । इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमे- व याचे ॥ ८३ ॥ व्यास उवाच । इत्येवमीडितो रामः प्रादात्तस्मै वरांतरम् । वीरो रामो महातेजाः सच्चिदानं- दविग्रहः ॥८४ ॥ अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा । अंतर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥८५॥ इति श्रीर- घुनाथस्य स्तवराजमनुत्तमम् । सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम् ॥ ८६ ॥ कथितं ब्रह्मपुत्रेण वेदानां सा- रमुत्तमम् । गुह्याद्रुह्यतमं दिव्यं तव स्नेहारप्रकीर्तितम् ॥ ८७ ॥ यः पठेच्छृणुयाद्वापि त्रिसंध्यं श्रद्धयान्वितः । ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥८८ ॥ स्वर्ण- स्तेयं सुरापानं गुरुतल्पगतिस्तथा । गोवधाद्युपपापानि अनृतात्संभवानि च ॥८९॥ सर्वैः प्रमुच्यते पापैः कल्पा- युतशतोद्भवैः । मानसं वाचिकं पापं कर्मणा समुपार्जित- म् ॥१०॥ श्रीराम स्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् । इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९१ ॥ रामं सत्यं परं ब्रह्म रामात्किंचिन्न विद्यते । तस्माद्रामस्वरूपं हि सत्यं