पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २३७ न ॥ ६८॥ तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा । विप्रा वेदास्तथा यज्ञाः पुराणधर्मसंहिताः ॥ ६९ ॥ वर्णा- श्रमास्तथा धर्मा वर्णधर्मास्तथैव च । यक्षराक्षसगंधर्वा दिक्पाला दिग्गजादयः ॥ ७० ॥ सनकादिमुनिश्रेष्ठा- स्त्वमेव रघुपुंग व वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥७१॥ तारका दश दिक् चैव त्वमेव रघुनंदन | सप्तद्वीपा: समुद्राच नगा नद्यस्तथा द्रुमाः ॥ ७२ ॥ स्था- वरा जंगमाश्चैव त्वमेव रघुनायक | देवतिर्यङ्मनुष्याणां दानवानां तथैव च ॥७३॥ माता पिता तथा भ्राता त्व- मेव रघुवल्लभ | सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥७४॥ त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम । त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किंचन ॥ ७५ ॥ शांतं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥७६ ॥ व्यास उवाच | ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुंगवम् । तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥७७॥ नारद उवाच । यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे । त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥७८॥ धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्त- म । अद्य मे सफलं जन्म जीवितं सफलं च मे ॥७९॥ अद्य मे सफलं ज्ञानमद्य मे सफलं तपः। अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् । अद्य मे सफलं सर्वं त्वन्नामस्मर-