पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे परा मणिखचितभावाक्तमुकुटाशिखाग्रालंबिन्यत्रिकतलम सौ- रखशिखरात् । महामेरोललां कलयति सदा यामक- लितां शरत्सौदामिन्याः कटकवरतेजोमयतनो ॥ ६७ ॥ सुविज्ञातं लोकैरनवधिसदादेशनपरैः सुधाखंडं लब्ध्वा तव निबिडभावांकमरणम् । द्वितीयं सोमेंदुस्फुटमुकुटतः कांतमनघं महामूर्तिज्योत्स्ना हरति नतदारिद्र्यतिमिरम् ॥ ६८ ॥ धृतं पुंडूं मात्रात्रितयरुचिरं साक्षरमिदं सहस्रारे हंसैः स्थितपरमहंसाजिगमिषो । वहंती पादाजद्वयसर- ललाक्षारसपदं शक्तेश्चंद्रोपलरचितसोपानपदवी ॥ ६९ ॥ श्रयेते हैमंते तरुविमलपत्रे मधुकरौ शुभं मर्मा- भोजे स्थितमिति सुचित्रं शमनिधे । कठोरेंदुप्रांशुप्रवर- निकरीभूततिमिरं सुधांशुर्भावाक्तो मुकुलयति विद्युच्च वलयम् ॥७०॥ तमोभिर्मू कालीगृहमिदमनुज्जृंभित मिति त्वदीये नेत्राजे कमलसदना जृंभितवती । सदा सुज्ञाने- नाविशति सदयाक्षि प्रसरति प्रभो यस्मिन्स्यात्ते ध्रुवम तिधनोयं मुनिपते ॥ ७१ ॥ यदा योगिनीषद्वलिरतिल- सत्कारकहशोरूपांते नीलाली उदरयुगली कंजदलयोः । वरं कारायेते कनकमकरीकुंडलयुगे कटाक्षौ चांपेयस्तव- कविचरंताविव वरौ ॥ ७२ ॥ त्रयीविद्यारूपस्त्रितनुरहि- मांशुः प्रतिदिनं श्रुतौ भावात्केचिद्विविधमकरीकुंडल- पदः । मिलित्वात्मायं ते घनतरमुपाधिद्वयमपि व्यनक्ति