पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि । पीठांभोजेऽनलशशिखगांतर्निवसितम् । गदाचक्राजासि- प्रसृतकरपद्मं मुररिपुं स धन्यस्त्वां ध्यायेत्परतरचिदानं- दवपुषम् ॥ २० ॥ लसन्मेरोः शृंगे सुरमणिमये कल्पकत- रुप्रकीर्णे वाक्पीठे रविशशिंकराकीर्णजलजे । स्थितं वाचा- धीशैर्मुतमनुदिनं त्वां भजति यो भवेद्वाणीशानामपि गुरु- रजेयोऽवनितले ॥२१॥ समुद्यद्दालार्कायुत निभशरीरं मुनि- वरं स्थितं बीजे मारे त्रिदशपतिगोपातिरुचिरे | हृदि त्वां यः पश्यन् सुखकरमिति ध्यायति सदा स एवाहं नूनं स भवति जगन्मोहनकरः ॥२२॥ निधिर्विश्वेषां त्वं निजचर- णपद्मद्वयवतां शरण्यश्चार्कानां चकितहृदयानामभयदः । वरेण्यः साधूनां वरद इति वा कामितधियाँ भवत्सेवा जंतोः सुरतरुसमाना न फलति ॥२३॥ यथा वै पांचाली नटति कुहकेच्छानुशरणं कुलालेन भ्रांतं भ्रमति च सकृच्च- क्रमनिशम् । तथा विश्वं सर्व वियति मनवश्वानुगुणिताः स्वतंत्रः को वास्ते वद परसुरेशस्त्रिभुवने ॥२४॥ त्वयाज्ञप्तो धाता सृजति जगदीशोऽपि हरते हरिः पुष्णातीदं तपति तपनो याति पवनः । धरां साद्रिद्वीपां वहति भुजगाना- मधिपतिः सुराः सर्वे युष्मद्भयपरवशाद्विभ्रति बलिम् ॥ २५ स्वयं मुक्तेः पूर्व स्वकृतसुकृतं मां नयति चेद्भवासत्वं का वा तव चरणपंकेरुहरतिः । हरेत्पापौघं नः शुभमपि ददा- तीति च सदा भवत्याशाबद्धाः सकलमपि धातुर्वशमहो