पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० बृहत्स्तोत्ररलाकरे लयते । सुषुम्नावर्तिन्यां तव चरणपीठेंदुसुयालुतो भित्त्वा ग्रंथित्रयममृतरूपो विचरति ॥१३॥ तवाधारे शक्तिस्थि- तकमलकर्माद्यभिवृते महापीठे वैश्वानरपुरमरुद्हनिलये । धराव्योमाकल्पे सुरमुनिमहेंद्राद्यभिनुतं महातेजोराशिं निगमनिलयं नौमि हृदये ॥ १४ ॥ भवत्पादांभोजं भव- जलधिपोतं भजति यो महासंसाराब्धि तरणितरतीत्येव निगमः | इहामुत्र त्रातुं तव चरणमेवात्मशरणं भवेद्धीरो वाहंकृतिपरमनस्कोयमधुना ॥१५॥ यथा दारुष्वनिर्निव- सति तथा देहनिकरे प्रविश्य त्वं चैको बहुविध इवाभासि तु तथा । चलन्नीरे चंद्रः शतविध इवाभाति गुणतो न चैतचंद्रे स्यान्न शतविधता नापि चपलम् ॥१६॥ दरिद्रो वा मूढः कठिनहृदयो वापि भवतां दयापात्रं स्याच्चेद्भजति महतामप्यधिकताम् । न विद्या रूपं वा न कुलमपि वा कारणमभून्महत्त्वे सेवैका तव पदयुगांभोजकलना ॥ १७॥ न ते कारुण्यं स्यात्सकलगुणवानप्यगुणवान् भवत्कारुण्यं स्यादगुणगणपो वोरुगुणवान् | यथा पत्यौ रक्ते यदपि च विरक्ते च युवतौ वृथा सौंदर्य स्यात्सकलमपि तेऽनुग्रहव- शात् ॥ १८ ॥ अनाथे दीने मय्यधिगतभवत्पादशरणे शरण्यब्रह्मण्यप्रथितगुणसिंधो कुरु दयाम् । महातेजोवार्धे स्वसुकृतमहिन्नैव सततं पुरा पुण्यैर्हीनं पुरुषमुपकुर्वति कृतिनः ॥१९॥ महाश्वेतद्वीपेऽमरुतरुगणात्यंतरुचिरे मणेः 19