पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | देवादिदयापरायै नमोस्तु शार्ङ्गयुधवल्लभायै ॥ १३ ॥ नमोस्तु देव्यै भृगुनन्दनायै नमोस्तु विष्णोरुरसि स्थि- तायै | नमोस्तु लक्ष्म्यै कमलालयायै नमोस्तु दामोदर- वल्लभायै ॥ १४ ॥ नमोस्तु कान्त्यै कमलेक्षणायै नमोस्तु भूत्यै भुवनप्रसूयै । नमोस्तु देवादिभिरर्चितायै नमोस्तु नन्दात्मजवल्लभायै ॥ १५ ॥ स्तुवन्ति ये स्तुतिभिरमू- भिरन्वहं त्रयीमय त्रिभुवनमातरं रमाम् । गुणाधिका गुरुधनभाग्यभागिनो भवन्ति ते भवमनु भाविताशयाः ॥ १६ ॥ हरिः । ॐ ॥ इति श्रीभगवत्पादशंकराचार्य- कृतः कनकस्तवः ॥ ७७. त्रिपुरसुंदरीस्तोत्रम् | श्रीगणेशाय नमः ॥ कदंबवनचारिणीं मुनिकदंबकादं- चिनीं नितंबजितभूधरां सुरनितंबिनीसेविताम् । नवांबु- रुहलोचनामभिनवांबुदश्यामलां त्रिलोचनकुटुंबिनीं त्रि- पुरसुंदरीम| श्रये ॥ १ ॥ कईबवनवासिनीं कनकवल्लकी- धारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् । दया- विभवकारिणीं विशदलोचनीं चारिणीं त्रिलोचनकुटुं- बिनीं त्रिपुरसुंदरी माश्रये ॥ २ ॥ कदंबवनशालया कुच भरोलसन्मालया कुचोपमितशैलया गुरुकृपालसहेलया । मदारुणकपोलया मधुरगीतवाचालया कयानि घननी- लया कवचिता वयं लीलया ॥ ३ ॥ कदंबवनमध्यगां -