पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे - न्धर्मसेतून्बिभर्ति । ब्रह्माद्यंशे योभिमानी गुणात्मा शब्दा- धंगैस्तं परेशं नमामि ॥ ५ ॥ यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तथ्यन् । शीतांशुः खे तारकासंग्रहश्च प्रवर्तते तं परेशं प्रपद्ये ॥६॥ यस्य श्वासा सर्वधात्री धरित्री देवो वर्षयंबुकालः प्रमाता | मेरुर्म- ध्ये भुवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥ ७ ॥ इति श्रीकलिकपुराणे कल्किकृतशिवस्तोत्रं संपूर्णम् ॥ ६४. शिवस्तुतिः । श्रीगणेशाय नमः ॥ गले कलितकालिमः प्रकटितेंदुभा- लस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । उदंचि- तकपालकं जघनसीम्नि संदर्शितद्विपाजिनमनुक्षणं कि- मपि धाम वंदामहे ॥ १ ॥ वृषोपरि परिस्फुरद्धवलधाम धामश्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् । क्वचि- त्पुनरुमाकुचोपचितकुंकुमै रंजितं गजाजिनविराजितं वृजिनभंगबीजं भजे ॥ २ ॥ उदित्वरविलोचनत्रय विस- त्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् । विकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरंगिणीत- रलचूडमीडे मृडम् ॥ ३ ॥ विहाय कमलालया विलसि- तानि विद्युन्नटीविडंबनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि कुमुद्वतीरमण खंडचूडामणौ कटीतटपटीभवत्क- रटिचर्मणि ब्रह्मणि ॥ ४ ॥ भवद्भवनदेहलीविकटतुंडदंडा-