पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । 4 गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥ अतीतः पंथानं तव च महिमा वाङ्मनसयोरतव्यावृत्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कति विधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २ ॥ मधुस्फीता वाचः परमममृतं निर्मितवतस्तव ब्रह्मन्कि वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽ• सिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥ तवैश्वर्यं यत्तज- गदुदयरक्षाप्रलयकृत्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन्वरद रमणीयामरमणीं विहंतु व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥ किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतक्र्यैश्वर्ये त्वय्यनव- सरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मो- हाय जगतः ॥ ५ ॥ अजन्मानो लोकाः किमवयववंतो- ऽपि जगतामधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६ ॥ त्रयी सांख्यं योगः पशु- पतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्य- मिति च । रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृ- णामको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥ महोक्षः खट्टांगं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव व ।