३१० आश्वलायनगृह्यसूत्रभाष्यम् रीभिः समिद्भिरष्टाभिर्दधिमधुघृताक्ताभिः 'अप नः शोशुचदघम्' इति प्रत्यृचं हुत्वा श्वोभूत उदित आदित्ये पाणिग्रहस्य पुरस्तादा- हुतिप्रभृति सर्वं प्राग्वधूवस्त्रान्तं च । अत्र संभारा दधिवर्जम् । न च तत् प्रयच्छेत् । आज्यशेषं स्वभिमृशेत् । लाजहोमश्चावदान- धर्मेण । जुहुयाच्चतुर्थमभ्यात्मम् । अरणिमन्तं चेदिच्छेदेतस्मिन्ने- वाग्नौ तूष्णीं प्रताप्य निर्मथ्य चतुर्गृहीतमाज्यं जुहुयात् । अग्नये पवमानाय, अग्नये पावकाय, अग्नये पथिकृते, अग्नये तन्तुमते, अग्नये शुचये, 'मनो ज्योति: ' इति च । अत ऊर्ध्वमग्न्याधेयेन समानं प्राक् पौर्णमासात् ।। १२ ।। यथा पाणिगृहीतायाः प्रजा संतानवर्धनी । एवं परिगृहीतेऽग्नौ पाकः पुष्टिकरो भवेत् || तथा दैवे च पित्ये च यच्चान्यत् पूर्तसंज्ञिकम् । अक्षय्यं भवति दत्तं वै यस्याग्निः परिगृह्यते ।। परिगृहीते यथाग्नौ सायं प्रातर्बलि हरेत् । विधूतपापः स तेन ब्रह्मलोकमवाप्नुयात् ॥ योऽगृहीत्वा विवाहाग्नि गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको ह्यसौ भवेत् ॥ वृथापाकं हि भुञ्जानः प्रायश्चित्तं विनिर्दिशेत् । प्राणायामास्ततः कार्या घृतं प्राश्य ततः शुचिः ॥ इति ।। १३ ।। अथ यद्युपासनो नश्येत् कथं स्यादिति । लौकिकमग्नि- माहृत्य, आज्यं संस्कृत्येध्ममभिघार्य नानान्तयोश्चतुर्गृहीतैरेला आज्याहुतीर्जुहुयात् । ' त्वमग्ने व्रतपा असि ', ' यो अग्नि देव - वीतये ', ' तन्तुं तन्वन् रजसो भानुमन्विहि '
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४७
दिखावट