सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX ३०६ यथा भूमिरग्निगर्भा यथा द्यौरिन्द्रेण गर्भिणी | वायुर्यथा दिशां गर्भ एवं गर्भं दधाम्यसौ ' ॥ इति वा ॥ ६ ॥ उक्तं तृतीये मासि पुंसवनं चतुर्थेऽनवलोभनम् । 'ब्रह्मणाग्निः संविदान: ' इति षट् प्राजापत्यस्य स्थालीपाकस्य हुत्वा 'अक्षीभ्यां ते नासिकाभ्याम्' इति प्रत्यृचमाज्यलेपेनाङ्गान्यभिमृशेत् । व्याख्यातं सीमन्तोन्नयनं प्रथमगर्भे ॥ १० ॥

अनवलोभनं व्याख्यास्यामः । चरुद्वयं च कुर्वीत प्राजापत्यं च पौरुषम् । 'हिरण्यगर्भः समवर्तताग्रे' इति प्राजापत्ये जुहुयात् । सहस्रशीर्षा' इति द्वितीये । गुर्विण्याः कुक्षिमभिमन्त्रयेत 'आयुष्यम्' इति सूक्तेन । ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयीत ।। ११ ।। ग्राम्यस्वाध्यायमधीत्याथारण्यमधीयीत । अथास्य व्रतानि भवन्ति । सावित्रं वेदव्रतं माहानाम्न्यं व्रातिकमौपनिषदं गौदानिक सौपर्णं चेति । ' त्वं व्रतानां व्रतपतिरसि' इति । सर्वव्रतेषु चैवम् । यथायथमादेशः । व्रतं कीर्तयेदग्निमीक्षमाणः । ' स्मृतं च मे अस्मृतं च मे तन्म उभयव्रतम्' इति । एवमुत्तरेषु सर्वेषु पदेषु वदेत् 1 जातकर्मणि चेन्न गृहीतः स्यादथ समावर्तनाग्नि परि- गृह्णीयात् । यत्नान्त्यां समिधमादधाति तं परिगृह्णाति । स आवसथ्यः । तस्मिन् गृह्यकर्माणि कुर्युः । तदापि न गृहीतः स्याद् वैवायमग्निमादधीत । वैवाह्योऽपि न गृहीतः स्यादमावास्यायां वैश्यकुलादाहृत्य शुचौ देशे स्थापयित्वा अस्तमित आदित्य औदुम्ब-