पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ आश्वलायनगृह्यसूत्रभाष्यम् भिक्षां भवान् ददातु । अनुप्रवचनीयमिति वेत्ययं भिक्षां याचते । अनुप्रवचनीयोपदेशाद् गम्यते अनुप्रवचनीयार्थमिदं भिक्षायाचनमिति । अथ सायं प्रातः कथं भिक्षेतेति । भवत्पूर्वामिति । एवं स्मृतिप्रामाण्यात् । इदं तु भिक्षायाचनं सर्वेषां वर्णानां भवति । कस्मात् । अविशेषात् । यदा तु स्त्री याच्यते तदा भिक्षां भवती ददातु, अनुप्रवचनीयं भवती ददात्विति वा ॥ ८ ॥ तदाचार्याय वेदयित्वा तिष्ठेदहःशेषम् ॥ ९ ॥ तदनुप्रवचनीयार्थमाहृतमाचार्याय वेदयीत । निवेद्य तिष्ठेदहःशेषम् । शिष्टं यदहस्तावन्तं कालं स्थानं चोद्यते । आसनं न भवति ।।ह। अस्तमिते ब्रह्मौदनम् । अनुप्रवचनीयं श्रपयित्वाचार्याय वेदयीत ॥१०॥ अस्तमित आदित्ये ब्रह्मौदनं श्रपयति । ब्रह्मणे ओदनः ब्रह्मौदन तं श्रपयति । कः श्रपयति । ब्रह्मचारी । पाकयज्ञतन्त्रविधानेन । अथवा ब्राह्मणानामायायमोदनः पच्यते । अनुप्रवचनीयमिति चास्य संज्ञा भवति । तच्छृतं स आचार्याय निवेदयति ब्रह्मचारी ।। १० ।। आचार्यः समन्वारब्धे जुहुयात् ' सदसस्पतिमद्भुतम् (ऋ० सं० १. १८. ६) इति ॥११॥ , 1याचेतेति-B. 2 The passage found above (I. 19. 11) should belong to this place either in the sūtra or bhāsya. ३ वेदयीत-B, D. 4 भिक्षामाहृताम् for आहृतम्--B. A,C,D. 6 वेदयीत--A, C, D. ॐ सत्--