पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः १११ सायं प्रातः समिधमादध्यात् ॥ ५ ॥ समिदाधानं च सायं प्रातश्च करोति । तत्र समिदाधानधर्मा अग्निपरिसमूहनादय उपस्थानान्ता उक्ताः । तत्र च प्रदर्शितं यथा समिदाधाने । ते भवन्तीति । इह पुनः सायंप्रातर्ग्रहणं न कर्तव्यम् । कस्मात् । प्रकृतत्वात् । तत् क्रियतेऽसंबन्धार्थम् । संबन्धे सति को दोषः । क्रमनियमः प्राप्नोति । तस्मात् क्रमनियमनिवृत्त्यर्थं पुनः सायंप्रातर्ग्रहणं क्रियते ! अन्यतराक्रियायां चान्यतरा क्रिया प्राप्नोति । तेन भिक्षाग्रहणं चानित्यकरणमपेक्षते । समिदाधानं नित्यम् । तस्माददश्यं कर्तव्यं सायं- प्रातर्ग्रहणम् ॥ ५ ॥ अप्रत्याख्यायिनमग्रे भिक्षेत ॥ ६ ॥ यो हि न प्रत्याचष्टे तादृग्लक्षणं प्रथमं भिक्षेत । प्रत्याख्यानशील: प्रत्याख्यायी तादृशं न भिक्षेत । याचेतेत्यर्थः । अग्रे प्रथममित्यर्थः । पश्चादन्यानिति । तत्र संशयः । किमेतद् भिक्षान्तरमुत याचनोपाय इति । किं चातः । यदि तावद् याचनोपायः अनाप्रत्याख्यायिनं पूर्व याचित्वा पश्चादन्येषामनियमः । भिक्षान्तरमिदम् । तस्मादन्येऽपि याच्यन्ते ।। ६ ॥ अप्रत्याख्यायिनी वा ॥७॥ अप्रत्याख्यायिनी वा स्त्रियं याचेत। किमत्र सायंप्रात:क्षस्यायं विधिः । नेत्युच्यते । भिक्षान्तरमेवेदमिति गम्यते ।। ७ ।। " भिक्षा भवान् ददातु, 'अनुप्रवचनीयम्--' इति वा 1 सायं प्रातरेव भवति-A, C, DE 2 अनित्यं कारणम्-A, C, D. ३ भिक्षणस्य-A,C,D. 4 भवान् भिक्षा-B, D.