पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • लघुविष्णुस्मृतिः *

६१ कौपीनाच्छादनं वासः कन्यां संतापहारिणीम् । पादुके चापि गृहणीयात्कुर्वान्नान्यस्य संग्रहः ॥७॥ संभाषणं सह स्त्रीभिरालम्भप्रेक्षणे तथा । नृत्यं गानं सभासेवां परिवादांश्च वर्जयेत् ।।८।। वानप्रस्थगृहस्थाभ्यां प्रीति यत्नेन वर्जयेत् । एकाकी विचरेन्नित्यं त्यक्त्वा सर्वपरिग्रहम् ॥६॥ याचितायाचिताभ्यां तु भिक्षया कन्पयेत्स्थितिम् । साधुकारं याचितं स्यात्याक्षणीतमयाचितम् ॥१०॥ चतुर्विधा भिक्षुकाः स्युः कुटीचकबहूदकौ । हंसः परमहंसश्च पश्चाद्यो यः स उत्तमः ॥११॥ एकदण्डी भवेद्वाऽपि त्रिदण्डी चापि वा भवेत् । त्यक्त्वा सर्वसुखास्वादं पुत्रैश्वर्यसुखं त्यजेत् ॥१२॥ अपत्येषु वसन्नित्यं समत्वं यत्नतस्त्यजेत् । नान्यस्य गेहे भुञ्जानो दोषभाग्भवेत् ॥१३॥ काम क्रोधं च लोभं च तासत्यमेव च । कुटीचकस्त्यजेत्सर्व पुत्रार्थ चैव सर्वतः ॥१४॥ भिक्षाटनादिकेऽशक्तौ यतिः पुत्रेषु संन्यसेत् । कुटीचक इति ज्ञेयः परित्राट्त्यक्तवान्धवः ॥१५॥ त्रिदण्डं कुणिकां चैव मिक्षाधारं तथैव च । सूत्रं तथैव गृहणीयानित्यमेव बहूदकः ॥१६॥ प्राणायामेऽप्यभिरतो गायत्रीं सततं जपेत् । विश्वरूपं हृदि ध्यायनयेत्कालं जितेन्द्रियः ॥१७॥ ईषत्कृतकषायस्य लिङ्गमाश्रित्य तिष्ठतः । अन्नार्थ लिङ्गमुद्दिष्टं न मोक्षार्थमिति स्थितिः॥१८॥ त्यक्त्वा पुत्रादिकं सर्व योगमार्गव्यवस्थितः । इन्द्रियाणि मनश्चैव कर्षन्हसोऽभिधीयते ॥१६॥ कृच्छ श्चान्द्रायणैश्चैव तुलापुरुषसंज्ञकैः । अन्यैश्च शोषयेद्देहमाकाङ्क्षन्ब्रह्मणः पदम् ॥२०॥ यज्ञोपवीतं दण्डं च वस्त्र' जन्तुनिवारणम् । अयं परिग्रहो नान्यो हंसस्प श्रुतिवेदिनः ॥२१॥ आध्यात्मिकं ब्रह्म जपन्याणायामांस्तथाऽऽचरन् । वियुक्तःसर्वसङ्गेम्यो योगी नित्यं चरेन्महीम् ॥२२॥ आत्मनिष्ठः स्वयं युक्तस्त्यक्तसर्वपरिग्रहः । चतुर्थोऽयं महानेषां ध्यानभिक्षुरुदाहृतः ॥२३॥ त्रिदण्डं कुण्डिकां चैव सूत्रं चाथ कपालिकाम् । जन्तूनां वारणं वस्त्र सर्व भिक्षुरिदं त्यजेत् ॥२४॥ कौपीनाच्छादनार्थ च वासोर्धस्य परिग्रहम् । कुर्यात्परमहसस्तु दण्डमेकं च धारयेत् ॥२५॥ आत्मन्येवाऽऽत्मना बुद्धया परित्यक्तशुभाशुभः । अव्यक्तलिङ्गो व्यक्तश्च चरेद्भिक्षुः समाहितः ॥२६॥ प्राप्तपूजो न संतुष्येदलामे त्यक्तमत्सरः । त्यक्तवृष्णः सदा विद्वान्मुकवत्पृथिवीं चरेत् ।।२७॥ देहसंरक्षणार्थ तु भिक्षामीहेद्विजातिषु । पात्रमस्य भवेत्पाणिस्तेन नित्यं गृहानटेत् ॥२८॥ अतेजसानि पात्राणि भिक्षार्थ कल्पयेन्मुनिः । सर्वेषामेव मिक्षूणां दालावुमयानि च ॥२६॥ कांस्यपात्रे न भुञ्जीत आपद्यपि कथंचन । मलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः ॥३०॥ कांसिकस्य तु यत्पापं गृहस्थस्य तथैव च । कांस्यभोजी यतिः सर्व तयोः प्राप्नोति किल्विषम् ॥३१॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । उत्तमा वृत्तिमाश्रित्य पुनरावर्तयेद्यदि ॥३२॥ आरूढपतितो ज्ञेयः सर्वधर्मबहिष्कृतः । निन्यश्च सर्वदेवानां पितॄणां च तथोच्यते ॥३३॥ विदण्डं लिङ्गमाश्रित्य जीवन्ति बहवो द्विजाः । न तेषामपवर्गोऽस्ति लिङ्गमात्रौपजीविनाम् ॥३४॥ त्यक्त्वा लोकांश्च वेदांश्च विषयाणीन्द्रियाणि च । आत्मन्येव स्थितो यस्तु प्राप्नोति परमं पदम् ॥३५॥ . इतिघेणधर्मशालो बतुर्थोऽध्यायPUpGangotri