पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृति ]

  • अङ्गिर स्मृतिः । *

राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् । सूतकान्नं तु यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् ।।११७॥ रात्रावस्तमिते सूर्ये चण्डाली स्पृशते स्त्रियः। ताः स्पृष्टास्तु यदा किंचित्प्रायश्चितं कथं भवेत् ।।११८॥ जातरूपं स्पृशेदापो दिवानीतं तु यज्जलम् । तेन स्नात्वा च पीत्वा च सर्वे स्पृष्ट्वा शुचिर्भवेत् ।।११६॥ दासनापितगोपालकुलमित्रार्धसीरिणः । एते शूद्रेषु भोज्याना यथाऽऽत्मानं निवेदयेत् ॥१२०॥ अन्यशूद्रेषु अन्नाद्य ये भुञ्जन्ति क्षुधा द्विजाः । प्रायश्चिनं च संप्राप्त चरेच्चान्द्रायणं व्रतम् ॥१२१॥ वृषलीफेनजातस्य निश्वासोपहतस्य च । तासु चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥१२२।। अजापालो महिषश्च तथा च वृपलीपतिः । प्रमादादपि संस्पृष्ट्वा सचैलं स्नानमाचरेत् ॥१२३॥ रेतःक्षयकरी वन्ध्या अजास्ताः परिकीर्तिताः । तासां यः पालयोद्विषो जापालः स उच्यते ॥१२४॥ महिषीत्युच्यते नारी या चैव व्यभिचारिणी । तं दोष क्षमते यस्तु स वै माहिष उच्यते ॥१२॥ पितुर्वेश्मनि या कन्या रजस्तु समुपस्पृशेत् । भ्रूणहत्या पितुस्तस्याः सा कन्या वृपली स्मृता ॥१२६॥ माता चैव पिता चैव ज्योष्ठो भ्राता तथैव च । त्रयस्ते नरकं यान्तिदृष्ट्वा कन्यां रजस्वलाम् ॥१२७॥ उद्वहेद्यस्तु तां कन्यां ब्राह्मणो मदमोहितः। असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः॥१२८॥ अग्रेच माहिषं दृष्ट्वा मध्येच वृषलीपतिः। अन्त्ये वाधु षिकं दृष्ट्वा निराशाः पितरो गताः ॥१६॥ श्वित्री कुष्ठी तथा तस्य कुनखी श्यावदन्तकः । निराशाः पितरो यान्ति देवता ऋषिमिः सह ॥१३०॥ नाश्नन्ति पिशुने देवा नाश्नन्त्यनृतवादिनः । भार्याजितस्य नाश्नन्ति यस्य चोपपतिगृ है ॥१३१॥ नखलोमोपजातस्य न रक्कोनरवाससः । दूव्यङ्गुलातीतकर्णस्य भुञ्जते पितरो हविः ॥१३२॥ यावदुष्णं भवेदन्नं यावद्भ जन्ति वाग्यताः तावदश्नन्ति पितरो यावनोक्ता हविगुणाः ॥१३३॥ हविगुणा न वक्तव्याः पितरो यत्र तर्पिताः । पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥१३४॥ पावतो ग्रसते पिण्डान्हव्यकव्येष्वमन्त्रवित् । चावतो ग्रसते प्रेत्य दीप्तान्स्थूलानयोमयान् ॥१३॥ यावद्विप्रा न पूज्यन्ते अन्नदानहिरण्ययोः । तावच्चीर्णव्रतस्यापि तत्पापं न प्रणश्यति ॥१३६॥ यद्विष्ठयाकाकबलाकयोर्वाअमेध्यलिप्तंचभवेच्छरीरम्।श्रोत्रेमुखेनप्रविशेञ्चसम्यक्स्वानेनलेपोपहतस्यशुद्धिः अभक्ष्याणामपेयानामलेद्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥१३८॥ पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पीत्वा षडात्रेण विशध्यति ॥१३॥ ये प्रत्यवसिता विप्राः प्रव्रज्याग्निजलोद्वहाः। अनाशकनिवृत्तश्च गृहस्थत्वं चिकीर्षति ॥१४॥ स चरेत्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानिच । जातकर्मविधिं कृत्वा पुनः संस्कारमर्हति ॥१४१॥ तुलिको चोपधानानि पुष्परक्ताम्बराणि च । शोषयित्वाऽर्कतापेन प्रोक्षणेन विशुध्यति ॥१४२॥ देशं कालं तथाऽऽत्मानं द्रन्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्था च ज्ञात्वा कर्म समाचरेत् ॥१४॥ रथ्याकर्दमतोयानि नाना पथि तृणानि च । मारुतार्केण शुध्यन्ति पक्कष्टकचितानि च ॥१४४॥ आतुरेस्नानमुत्पन्ने दशकृत्वा ह्यनातुरः। स्नात्वा स्नात्वा स्पृशेद्वाऽपिततः शुध्येत्स आतुर॥१४॥ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । कृच्छमेकं चरेत्पूर्वा पादमेकं तथोचरा ॥१४॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९&oldid=337509" इत्यस्माद् प्रतिप्राप्तम्