पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः

  • प्रजापतिस्मृतिः *

च सर्वदोक्तः ॥१॥ स काल: शास्त्रनिष्ठैः शुक्रवाक्यमु बन्ति द्विजसत्तमाः । भवन्ति बलिनस्तस्माद्राक्षसा बलहारिणः । १४॥ निरस्य शुक्रवाक्यानि सिद्धान्तस्मृतिनिश्चयम् । श्राद्धकल्पस्य वक्ष्येऽहं भक्त्या तुष्टो रुचे तव ॥१५॥ त्वयो पृष्ठं कदा श्राद्धं रुचे प्रम्लोचया सह । शणु संक्षेपतो वच्मि कालकतो ह्यनुक्रमात् ॥१६॥ वृद्धो क्षयेऽह्नि ग्रहणे युगादौ महालये श्राद्धममासु तीर्थे । सूर्यक्रमे पर्वसु वैधृतौ च रुचौ व्यतीपातगतेऽष्टकासु ॥१७॥ द्रव्यस्य संपत्सु मुन्यन्द्रसङ्गे काम्येषु मन्त्रादिषु सद्बते स्यात् । छायासु मातंगभवासु नित्यं श्राद्धस्य वृद्धौ प्राप्ते च यः कुर्याच्छाद्धं नान्दीमुखं पुमान् । तस्याऽऽरोग्यं यशः सौख्यं विवर्धन्ते धनप्रजाः ।। श्राद्धं कृतं येन महालयेऽस्मिन्पित्रोः क्षयाहे ग्रहणे गयायाम् । किमश्वमेधैः पुरुषैरनेकैः पुण्यैरिमैरन्य- तमैः कृतैः किम् ॥२०॥ दर्शश्राद्धं च यः कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः । पितरस्तेन तुष्टा नै प्रयच्छ- न्ति यथेप्सितम् ॥२१॥ माघे पश्चदशी कृष्णा नभस्ये च त्रयोदशी । तृतीया माधवे शुक्ला नव म्यूर्जे युगादयः ॥२२॥ भाद्रे कलिापरे चैव माघे त्रेतातृतीया नवमी कृते च । युगादयः पुण्य- तमा इमाश्च दचं पितॄणां किल चाक्षयं स्यात् ॥२३॥ यावदायाति तत्पर्व वर्धते द्विगुणक्रमम् । दिने दिनेऽखिलं दानं दत्तं धृतपर्वणि ॥२४॥ संक्रान्तौ च व्यतीपाते मन्वादिषु युगादिषु । श्रद्धया स्वल्पमात्रं च दत्च कोटिगुणं भवेत् ॥२५॥ पूर्वजान्मनुजान्देवान्सनि द्रव्ये न ने यजेत् । मन्दाग्नि रामयावी च दरिद्रश्च प्रजायते ॥२६॥ छायासु सोमोद्भवजासु पुण्यं देवार्चनं गोतिल- भूप्रदानम् । करोति यो नै पितृपिण्डदानं दूरे न तस्यास्ति विमोर्विमानम् ॥२७॥ चन्द्रग्रहे लक्ष- गुणं प्रदत्त विवर्धते कोटगुणं रविग्रहे। गजाश्वभूरुक्मतिलाज्ययोषिद्दानस्य संख्या न मयाऽत्र गण्यते ॥२८॥ पितॄणां नरकस्थानां जनं तीर्थस्य दुर्लभम् । तेन संतर्पिताः सर्वे स्वर्ग यान्तीति मद्वचः ॥२६॥ अष्टकासु च सर्वासु तथा चान्वष्टकासु च । पिण्डदानं प्रकर्तव्यमक्षय्यतृप्तिकारकम् ॥३०॥ अष्टकासु च सर्वासु साग्निकैनवदैवतम् । पित्राद्य मातमध्यं च कर्तव्यं न निरग्निकैः ॥३१॥ महायज्ञरतः शान्तो लौकिकाग्नि च रक्षयेत् । धर्मशास्त्रोक्तमार्गी यः स साग्निकसमो मतः ॥३२॥ इष्टे गृहसमायाते पूज्ये यज्वनि मन्त्रदे । वेदज्ञैः सर्वशास्त्रह प्यन्त्यखिलपूर्वजाः ॥३३॥ व्रतस्थो व्रतसिद्धयर्थ श्राद्धं कुर्यादपिण्डकम् । विनो श्राद्धन यत्कर्म तत्सर्व निष्फलं भवेत् ॥३४॥ सपिण्डदानं सौभाग्य काम्यश्राद्धं त्रिपौरुषम् । कार्य भार्यासु तेनैतत्सर्वकामफलप्रदम् ॥३५॥ नित्यश्राद्ध सदा कार्य पितॄणां तृप्तिहेतुकम । स विष्णुरिति विज्ञेयो नित्यं प्रीणाति पूर्वजान्। ३६॥ 'श्राद्धान्यनेकशः सन्ति पुराणोक्तानि नै रुचे । फलप्रदानि सर्वाणि तेषामायो महालयः ॥३७॥ सत्यवाकशुद्धचेता यः सत्यव्रतपरायणः । नित्यं धर्मरतः शान्तः स भिन्नालापवर्जितः ॥३८॥ अद्रोहोऽस्तेयकर्मा च सर्वप्राणिहिते रतः । स्वस्त्रीरतः सविनया नयचक्षुरकर्कशः ॥३६॥ पिठमातृवचाकर्ता गुरुवृद्धपष्टि कः । श्रद्धालुर्वेदशास्त्रज्ञः क्रियावान्मैक्ष्य जीवकः ॥४०॥ - स तु श्राद्ध' यदा कुर्यात्पत्रपाकेन सद्विजैः । तदा श्राद्धसहस्रैर्यत्पीविस्तञ्जायते भृशम् ॥४१॥ . यह ग्रा FE माद CC.O- Jangamwadi Math Collection. Digitized by eGangotri