पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • दक्षस्मृतिः। *

६३ वैणवेन त्रिदण्डेन न त्रिदण्डीति कथ्यते । अध्यात्मदण्डयुक्तो यः स त्रिदण्डीति कथ्यते ॥२६॥ वाग्दण्डोऽथ मनोदण्डः कर्मदण्डश्च ते त्रयः । यस्यते तु त्रयो दण्डाः स त्रिदण्डीति कथ्यते ।। त्रिदण्डव्यपदेशेन जीवन्ति बहवो जनाः । यो हि ब्रह्म न जानाति त्रिदण्डाहॊ भवेन्न सः ॥३१॥ नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन । स्तैः सर्वैस्तु संपन्नो यातिर्भवति नेतरः ॥३२॥ पारिवाज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । श्वपदेनाङ्कयित्वा तं राजा शीघ्र प्रवासयेत् ॥३३॥ एको भिक्षुर्यथोक्तस्तु द्वौ भिक्षू मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊर्ध्व तु नगरायते ॥३४॥ तु नगरं हि न कर्तव्यं ग्रामो वा मिथुनं तथा। एतन्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥३॥ राजवार्ता ततस्तेषां भिक्षावार्ता परस्परम् । स्नेहपैशुन्यमात्सर्य संनिकर्षान संशयः ॥३६॥ लाभपूजानिमित्तं तु व्याख्यानं शिष्यसंग्रहः । एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥३७॥ ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता । भिक्षोश्चत्वारि कर्माणि पञ्चपं नोपपद्यते ॥३८॥ तपोज़पैः कृशी भूत्वा व्याधिता वसथादहिः । वृद्धा ग्रहगृहीताश्च ये चान्ये विकलेन्द्रियाः ॥३६॥ नीरुजश्च युवा क्षेत्र ब्रह्मचर्याद्विनश्यति । ब्रह्मचर्याद्विनष्टश्च कुनं गोगं च नाशयेत् ॥४०॥ वसन्नावसथे भिक्षुमैथुनं यदि सेवते । तस्यावसथनाशः स्यात्कुलान्यपि हि कृन्तति ॥४१।। आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेव । किं तस्यान्येन धर्मेण कृतकृत्योऽभिजायते ॥४२॥ संचितं यद्गृहस्थेन पापमामरणान्तिकम् । निर्दहत्येव तत्सर्वमेकरात्रोषितो यतिः ॥४३॥ । अध्वश्रमपरिश्रान्तं यस्तु भोजयते यतिम् । निखिनं भोजिनं तेन शैलॊक्यं सचराचरम् ॥४४॥ यस्मिन्देशे वसेयोगी ध्यायी योगविचक्षणः । सोऽपि देशो भवेत्पूनः किं पूनस्तस्य बान्धवाः ॥४५॥ अद्वैतं च तथा द्वैतं द्वैताद्वैतं तथैव च । न द्वैतं नापि चाद्वैतमित्येनत्पारमार्थिकम् ॥४६।। नाह द्वैतं च संबन्धो ब्रह्म मावेन भावितः । ईदृशायामवस्थायामताप्तं परमं पदम् ॥४७॥ द्वैतपक्षः समाख्यातो द्वैतं ये तु समाश्रिताः । अतानां प्रवक्ष्यामि यथा शास्त्रस्य निश्चयः ॥४८॥ अत्राऽऽत्मव्यतिरेकेण द्वितीयं नैव पश्यति । अतः शास्त्राण्यधीयन्ते श्रूयन्ते ग्रन्थविस्तराः ॥४६॥ दक्षशास्त्रं यथाप्रोक्तमशेषाश्रममुत्तमम् । अधीयते तु ये विप्रास्ते यान्त्यमरलोकताम् ॥५०॥ इदं तु यः पठेद्भक्त्या शृणुयादधमोऽपि वा । स पुत्रपौत्रपशुमान्कीति च समवाप्नुयात् ॥५१॥ श्रावयित्वा विदं शोस्त्रं श्राद्धकालेऽपि वा द्विजः । अक्षय्यं भवति श्राद्धं पितृभ्यश्चोपजायते ॥५२॥ इति दाक्षे धर्मशास्त्रे सप्तमोऽध्यायः ।।७।। समाप्तमिदं दक्षप्रणीतं धर्मशास्त्रम् । CC.O- Jangamwadi Math Collection. Digitized by eGangotri