पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • दक्षस्मृतिः। *

प्रक्षाल्य पादौ पाणी च त्रिः पिवेदम्बु बीक्षितम् । संहताङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम् ।।२२॥ संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् । अङगुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥२३॥ अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः । नामि कनिष्ठागुष्ठाभ्यां हृदयं तु तलेन नै॥२४॥ सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् । संध्यकाले च संप्राप्ने मध्याह्न च ततः पुनः ॥२५॥ यो न संध्यामुपासीत बामणो हि विशेषतः । स जीवन्नेव शूद्रस्तु मृतः श्वा चैव जायते ॥२६॥ संध्याहीनोऽशुचिनित्यमनहः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥२७॥ संध्याकावसाने तु स्वयं होमो विधीयते । स्वयं होमे फलं यत्स्यान तदन्येन जायते ॥२८॥ ऋत्विक्पुत्रो गुरुता भागिनेयोऽथ विटपतिः । एभिरेव हुतं यत्तु तद्ध तं स्वयमेव तु ॥२६॥ देवकार्य ततः कृत्वा गुरुमङ्गलवीक्षणम् । देवकार्यस्य सर्वस्य पूर्वाहणो हि विधीयते ॥३०॥ देवकार्याणि पूर्वाहणे मनुष्याणां च मध्यमे । पितृणामपराहणे तु कुर्यादेतानि यत्नतः ॥३१॥ पौर्वाहिणकं तु यत्कर्म यदि तत्सायमाचरेत् । न तत्फलमवाप्नोति वन्ध्यास्त्रीमैथुनं यथा ॥३२॥ द्वितीये च तथा भागे वेदाभ्यासो विधीयते । वेदाभ्यासो हि विप्राणां विशिष्टं तप उच्यते ॥३३॥ वेदस्वीकरणं पूर्व विचारोऽभ्यसनं जपः । तदानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥३४॥ समित्पुष्पकुशादीनां स कालः परिकीर्तितः । तृतीये च तथा भागे पोष्यवर्गानसाधनम् ॥३५॥ माता पिता गुरुर्भार्या प्रजा दीनः समाश्रितः । अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्ग उदाहृतः ॥३६॥ ज्ञातिवन्धुर्जनः क्षीणस्तथाऽनाथः समाश्रितः । अन्योऽपि धनयुक्तस्य पोष्यवर्ग उदाहृतः ॥३७॥ सार्वभौतिकमन्नाद्य कर्तव्यं गृहमेधिना । ज्ञानविद्भयः प्रदातव्यमन्यथा नरकं व्रजेत् ॥३८॥ भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकः पीडने चास्य तस्माद्यत्नेन. तच्चरेत् ॥३६॥ जीवत्येकः स लोकेषु बहुभिर्योऽनुजीव्यते । जीवन्तोऽपि मृताश्चान्ये पुरुषाः स्वोदरंभराः ॥४०॥ बह्वथं जीवते कश्चित्कुटुम्बार्थे तथा परः । आत्मार्थे यो न शक्नोति स्वोदरेणापि दुःखितः ॥४॥ दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छता । अदत्चदाना जायन्ते परमाग्योपजीविनः ॥४२॥ चतुर्थेऽह्नस्तथा भागे स्नानाथ मृदमाहरेत् । तिलपुष्पकुशादीच स्नायाचांकृत्रिमे जले ॥४३॥ मृत्तिकाः सप्त न ग्राधा वल्मीकान्मूषकस्थलात् । अन्तर्जलाच मार्गान्तादृक्षमूलात्सुरालयात् ॥४४॥ परशौचावशिष्टा च श्रेयस्कामैः सदा बुधैः । शुचिदेशात्तु संग्राह्या मृतिका स्नानहेतवे ॥४॥ अश्चक्रान्ते रथकान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥४६॥ उद्धृताऽसि वराहेण कृष्णेन शतबाहुना । मृत्तिके प्रतिगृहणामि प्रजया च धनेन च ॥४७॥ नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते । तेषां मध्ये तु यनित्यं तत्पुनर्मिद्यते विधा ॥४८॥ मलापकर्षणं पूर्व मन्त्रवजं जले स्मृतम् । संध्ययोरुभयोः स्नानं स्नानदेशाः प्रकीर्तिताः ॥४६॥ मार्जनं जलमध्ये तु प्राणायामो यतस्ततः । उपस्थानं ततः पश्चात्सावित्रीजप उच्यते ॥५०॥ सविता देवता यस्या मुखमग्निरुदोहतः । विश्वामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते ॥५१॥ ७ CC.O- Jangamwadi Math Collection. Digitized by eGangotri