४४
- गोमिलस्मृतिः *
[अष्टादशस्मृतिः आणे ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरिति शिरः । प्रतिप्रतीकं प्रणवमुच्चारयेदन्ते शिरसः ॥ अर्चयन्ति तपः सत्यं मधु क्षरन्ति दिवि आपो० । एता एनां सहानेनतथैमिर्दशभिः सह ॥८॥ निर्जपेदायतप्राणः प्राणायामः स उच्यते । करेणोद्धत्यसलिलं घाणमासाय तत्र च ॥६॥ जपेदनायतासुर्वा त्रिः सकद्वाऽघमर्षणम् । उत्थायार्क प्रति प्रोहेत्रिकोणाञ्जलिमम्भसः ॥१०॥ उच्चित्रमित्यद्वयेन उपनिष्ठेदनन्तरम् । संध्या द्वयेषपस्थान मेतदाहुर्मनीषिणः ॥ ११ ॥ मध्ये त्वह उपस्पर्शविघाडादोच्छया जपेत् । तदसंपृक्तपाणिण कपादर्धपादपि ॥१२॥ कुर्यात्कृताञ्जलिर्वाऽपि ऊर्ध्वबाहुस्थापि वा । यत्र स्यात्कृच्छभूयस्त्वं श्रेयसऽपि मनीषिणः ॥१३॥ भूयस्त्वं ब्रुवते तत्र कृच्छाच्छु यो अवाप्यते । तिष्ठेदुदयनात्पूर्वा मध्यमामपि शक्तितः ॥१४॥ आसीतास्तमयाच्चान्त्यां संध्यां पूर्वत्रिकं जपेत् । एतत्संध्यात्रयं प्रोक्तं ब्राह्मण्यं यत्र तिष्ठति ॥१५॥ यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते । संध्यालोपाच्च चकितः स्नानशीलस्तु यः सदा ॥१६॥ ते दोषा नोपसर्पन्ति गरुत्मन्तमिवोरगाः । वेदमादित आरभ्य शक्तितोऽहरहर्जपेत् ॥१७॥ । उपतिष्ठत्ततो रुद्रमर्वाग्या वैदिकाजपात् । अथाद्भिस्तर्पयेद्देवान्सनिलामिः पिनपि । नामान्ते तर्पयामीति आदावोमिति च ब्रवन् ॥१८॥ ब्रह्माणं विष्णु' रुद्रं प्रजापति वेदान्देवांश्छन्दस्यषी- पुराणानाचार्यान्गन्धर्वानितरान् । मासं संवत्सरं सावयवं देवीरप्सरसो देवानुगानागासागरान्य- बतान्सरितो दिव्यान्मनुष्यान्यज्ञानचांसि सुपर्णान्पिशाचान्पृथिवीमोषधीभ्यः पशून्वनस्पतीन्भूतग्राम चतुर्विधमित्युपवीतीति ॥१६॥ अथ प्राचीनावीती यमं यमपुरुषान्कव्यवाहानं नलं सोममर्यमणम- निष्वाचान्सोमपीथान्वर्हिषदोऽय खान्पिढन्सकृत्मातामहांश्चेति प्रतिपुरुषमभ्यसेज्ज्येष्ठभ्रातस्त्रसु- रपितृव्यमातुलांश्च पितृवंशमातृवंशो ये चान्ये मत्त उदकमर्हन्ति तांस्तर्पयामीति । अयमवसाना- अलिरय श्लोकः ॥२०॥ छायां यथेच्छेच्छरदातपातः पयः पिपासुः क्षुधितोऽलमन्नम् । बालो जनित्री जननी च बालं योन्षित्पुमास पुरुषश्चयोषाम् ॥२१॥ तथा भूतानि सर्वाणि स्थावराणि चराणि च । विप्रादुदकमिछन्ति सर्वाभ्युदयकृद्धि सः ॥२२॥ तस्मात्सदैतत्कर्तव्यमकुर्वान्महतैनसा । युज्यते ब्राह्मणः कुर्वन्विश्वमेतद्विमति हि ॥२३॥ अल्पत्वाद्धोमकालस्य हुत्वा तत्स्नानकर्मणः। प्रातर्न तनुयात्स्नानं होमलोपो हि गर्हतः ॥२४॥ पञ्चानामथ सत्राणां महतामुच्यते विधिः । यैरिष्टवा सततं विप्रः प्राप्नुयात्सद्म शाश्वतम् ॥२५॥ देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् । महासत्राणि जानीयात्त एवेह महामखाः ॥२६॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवौ बलिभूतो नृयज्ञोऽतिथिपूजनम् ॥२७॥ श्राद्धं वा पितृयज्ञः स्यात्पित्रोर्बलिस्थापि वा । या श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः स बोच्यते ॥२८॥ स चार्वाक्तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः वैश्वदेवावसाने वा नान्यत्रतॆ निमित्तकात् ॥२९॥ अत्येकमाशयेद्वितं पित्यज्ञार्थसिद्धये । नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥३०॥ अप्युद्धृत्य यथाशक्त्या किंचिदन्यं यथाविधि । पितृभ्योऽय मनुष्येभ्यो दद्यादहरहर्द्विजे ॥३१॥ पितृभ्य इदमित्युक्त्वा स्वधाकारमुदीरयेत् । हन्तक अदै CC.O- Jangamwadi Math Collection. Digitized by eGangotri