पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ अष्टादशस्मृतिः]

  • गोमिलस्मृतिः। *

धनवाधु पिकं राजसेवकं कर्मकं तथो । प्रोक्षित च प्रतीक्षेत वर्षत्रयमपि त्वरन् ॥७॥ प्रोषितं यद्यशृण्वानस्त्वष्टादन्ते सनाचरेत् । आगते तु पुनस्तस्मिन्पादं वा शुद्धये चरेत् ॥७६॥ लक्षणे प्राग्गनाथास्तु प्रमाणं द्वादशाङ्गुलम् । तन्मूलसक्ता योदीची तस्या एतन्न चोत्तरम् । ७७॥ उदग्गताया संलग्ना ज्ञेयाः प्रादेरामात्रिकाः । सप्तसप्ताङ्गुलानि स्युः कुशेनैव समुल्लिखेत् ॥ मानक्रियायां युक्तायामनुक्ते मानकर्तरि । मानकृद्यजमान स्याद्वि दुषामेव निश्चयः ।।७६॥ पुण्यमेवाऽऽदधीतानिं स हि सः प्रशस्यते । अनधुकत्वं यत्तस्य काम्यैस्तन्त्रीयने शमम् ॥८॥ यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित् : सोऽन्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥१॥ अनूठैव तु सा कन्या पञ्चत्वं यदि गच्छति । न तथा व्रतलोपोऽस्य तेनैवान्यां समुद्हेत् ॥२॥ अथ चेन लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ।।८३॥ षष्ठी कण्डिका ।।६।। अश्वत्यो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राङ्मुखी शाखा वोदीची चोर्ध्वगाऽपि वा ।। अरणिस्तन्मयी प्रोक्ता तन्मध्ये चोत्तरारणिः । सारववारखच्चत्रम्बो वीली च प्रशस्यते ॥८॥ संसक्तमूलो यः शम्याः स शमीगर्भउच्यते । अलामे त्वशमीगर्भाद्वारे देवा विलम्बितः ॥८६॥ चतुर्विंशतिरंगुष्ठा दैव्यं पडपि पार्थिवम् । चत्वार उच्छ्यो मानमरण्योः परिकीर्तितम् ॥८॥ अष्टाङ्गुलः प्रमन्थ: स्याच्चत्रं स्याद्वादशाङ्गुलम् । ऊबीली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥८॥ अंगुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्व ग्रन्थिभिर्मनुयात्सदा ॥8 गोवालैः शणसंमिस्त्रिबृत्तमनं स्वकम् । व्यामप्रमाणं नेत्रं स्यात्प्रमथ्यस्तेन पावकः ॥१०॥ मूर्धाक्षिकर्णवक्त्राणि कन्धरा चापि पश्चमी । अङ्गुष्ठमात्राण्येतानि व्यङ्गुष्ठं वक्ष उच्यते ॥६॥ अङ्गुष्ठमात्रं हृदयं व्यङ्गुष्ठसुदरं स्मृतम् । एकाङ्गुष्ठा कटिज्ञेया द्वौ बस्तिद्वौं च गुह्यकम् ।।१२।। ऊरू जथे च पादौ च चतुस्त्येकैर्यथाक्रमम् । अरण्यवयया येते याज्ञिकैः परिकीर्तिताः ॥६॥ यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । तस्यां यो जायते वह्निः स कल्याणकदुच्यते ॥४॥ अन्येषु ये तु मनन्ति ते रोगमयमाप्नुयुः । प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च ॥६॥ उत्तरारणिनिर्यन्त्रप्रमथः सर्वदा भवेत् । योनिसंकरदोपेण युज्यते स्त्वन्यमन्थकृत् ॥६६॥ आर्द्रा सुसुखिरा चैव पूर्णाङ्गी पाटिता तथा । न हिता यजमानानामरण्येश्चोत्तरारणिः ॥१७॥ सप्तमी कण्डिका ॥७॥ परिधायाहतं वासः प्रोवृत्य च यथाविधि । बिभृयात्प्राङ्मुखो यन्त्रमावृत्ता वचमाणया ॥६॥ चत्रबुध्ने प्रमन्थानं गाढं कृत्वा विचक्षणः । कृत्वोत्तराग्रामरणिं न बुध्नमुपरी न्यसेत् ॥६६॥ चत्राग्रकीलकाग्रस्तामोवीलीमुदगग्रकोम् । विष्कम्भाद्वारयेयन्त्रं निष्कम्प प्रयतः शुचिः ॥१०॥ त्रिरुद्वेष्ट्याथ नेत्रेण चित्रपत्न्यौह तंसकाः। पूर्व मन्थत्यरण्यन्ते प्राय॑ग्नेः स्याद्यथा न्युतिः ॥१०१॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri