पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः

  • अत्रिसंहिता । *

पतिताच्चान्नमादाय भुक्त्वा वा ब्राह्मणो यदि । कृत्वा तस्य समुत्सर्गमतिकृच्छ्र विनिर्दिशेत् ॥२६॥ अन्त्यहस्ताच्छवे क्षिप्तं काष्ठलोष्टठणानि च । न स्पृशेत्तु तथोच्छिष्टमहोरात्रं समाचरेत् ॥२६॥ चाण्डालं पतितं म्लेच्छं मद्यमाण्डं रजस्वलाम् । द्विजः स्पृष्ट्वा न भुञ्जोत भुञ्जानो यदि संस्पृशेत्।। अतः परं न भुञ्जीत त्यक्त्वाऽनं स्नानमाचरेत् । ब्राह्मणैः समनुज्ञातस्त्रिरात्रमुपवासयेत् ॥२६॥ सघृतं यावकं प्राश्य व्रतशेषं समापयेत् । भुञ्जानः संस्पृशेयस्तु वायसं कुक्कुटं तथा ॥२६॥ त्रिरात्रेणैव शुद्धिः स्यादथोच्छिष्टस्त्वहेन तु । आरूढा नैष्ठिके धर्मे यस्तु प्रच्यवते पुनः ॥२७॥ चाद्रायणं चरेन्मासमिति शातातपोऽबूवीत् । पशुवेश्याभिगमने प्राजापत्यं विधीयते ॥२७॥ गवां गमने मनुप्रोक्तं व्रतं चान्द्रायणं चरेत् । अमानुषीषु गोवर्जमुदक्यायामयोनिषु ॥२७२।। रेतः सिक्त्वा जले चैव कृच्छ् सांतपनं चरेत् । उदक्यां सूतिकां वाऽपिअन्त्यजां स्पृशते यदि ॥२७३।। त्रिरात्रेणैव शुद्धिः स्याद्विधिरेष पुरातनः । संसर्ग यदिगच्छेच्चेदुदक्यायातथाऽन्त्यजैः ।।७४॥ प्रायश्चित्ती स विज्ञेयः पूर्व स्नानं समाचरेत् । एकरात्रं चरेन्मूत्रं पुरीषं तु दिनत्रयम् ।।२७५।। दिनत्रयं तथा पाने मैथुने पञ्च सप्त वा । भोजने तु प्रसक्तानां प्राजापत्यं विधीयते ॥२७६॥ दन्तकाष्ठे त्वहोरात्रमेष शौचविधिः स्मृतः । रजस्वला यदा स्पृष्टा श्वानचण्डालवायसैः ॥२७७॥ निराहारा भवेत्तावत्स्नात्वा कालेन शुध्यति । रजस्वला यदा स्पृष्टा उष्ट्रजम्बूकशंवरैः ॥२८॥ पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति । स्पृष्टं रजस्वलाऽन्योन्यं बामण्या ब्राह्मणी च या ॥२७॥ एकरात्रं निराहारा पश्चगव्येन शुध्यति । स्पृष्टा रजस्वलाऽन्योन्यं बामण्या क्षत्रियी च या ॥२८०|| त्रिरात्रेण विशुद्धिः स्याद्व्यासस्य वचनं यथा । स्पृष्टा रजस्वलाऽन्योन्य वाह्मण्या वैश्यसंभगा ॥ चतूरात्रं निराहारा पश्चगव्येन शुध्यति । स्पृष्टो रजस्वलाऽन्योन्यं बाह्मण्या शूद्रसंभवा ।।२८२॥' षडरात्रेण विशुद्धिः स्याद्ब्राह्मणी कामकारतः । अकामतश्चरेदेवं बामणी सर्वतः स्पृशेत् ॥२८॥ चतुर्णामपि वर्णानां शुद्धिरेषा प्रकीर्तिता । उच्छिष्टेन तु संस्पृष्टो बाह्मणो बाह्मणेन यः ॥२८४ । भोजने मूत्रचारे च शङ्खस्य वचनं यथा । स्नानं बामणसंस्पर्शे जपहोमौ तु क्षत्रिये ॥२८॥ वैश्ये नक्तं च कुर्वीतशूद्रे चैव उपोषणम् । चर्मको रजको वैएयो धीवरो नटकस्तथा ।।२८६॥ एतान्स्पृष्टवा द्विजो मोहादाचामेत्प्रयतोऽपि सन् । एतैः स्पृष्टो द्विजो नित्यमेकरात्रं पयः पिवेत् ॥ उच्छिष्टैस्तैत्रिरात्रं स्याघृतं प्राश्य विशुध्यति । यस्तु च्छायां श्वपाकस्य ब्राह्मणस्त्वधिगच्छति ॥ तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति । अभिशस्तो द्विजोऽरण्ये ब्रह्महत्याव्रतं चरेत् ॥२८॥ मासोपवासं कुर्वीत चान्द्रायणमथापि वा । वृथा मिथ्योपयोगेन भ्रूणहत्याव्रतं चरेत् ॥२६॥ अभक्षो द्वादशाहेन पएकेणैव शुध्यति । शठं च बामणं हत्वा शूद्रहत्याव्रतं चरेत् ॥२६१॥ निर्गुणं सगुणो हत्वा पराकव्रतमाचरेत् । उपपातकसंयुक्तो मानवो म्रियते यदि ॥२६॥ तस्य संस्कारकर्ता च प्राजापत्यद्वयं चरेत् । प्रभुञ्जानोऽतिसस्नेहं कदाचिस्पृशते द्विजः ॥२६॥ त्रिरात्रमाचरेत्रक्तैनि:स्नेहमथ वा चरेत् । विडालकाकायु च्छिष्टं जग्ध्वा श्वनकुलस्य च ।।२६४॥ CC.0- Jangamwadi Math Collection. Digitized by eGangotri