. . ११२
- लघ्वाश्वलायनस्मृतिः *
[अष्टादशस्मृतयः अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंचितम् । अस्नेहा अपि गोधूमा यवगोरसविक्रियाः ॥१७॥ अपूपसक्तवो धानास्तकं दधि घृतं मधु। एतत्पण्येषु भोक्तव्यं भाण्डलेपो न चेद्भवेत् ॥१७१।। अन्नाक्तभाजनस्थानि दुष्यन्ते तानि चैव हि । शुद्धमाण्डस्यितानीह ग्राह्याएयाहुर्मनीषिणः ॥१७॥ ग्राह्यं चारविकारं स्यात्सर्वं चैवेतुसंभवम् । तैलक्षीराज्यपक्व च जलसंमिश्रितं न हि ॥१७३।। परान्नं नैव भुञ्जीयात्स्वकीयं चान्यपाचितम् । संस्काररहितं चैव नाश्नीयाबामणः क्वचिन् ॥१७४.। ब्राह्मणो नैव भुञ्जीयाहिबन्नं कदावन । अज्ञानादि भुञ्जीत रौरवं नरकं व्रजेत् ॥१७॥ पत्नी स्नुषा स्वयं पुत्रः शिष्योऽथ वा गुरुः सुतः । आचार्यो वा पचेदन्नं भुञ्जीयात्तन्न दुष्यति।१७६।। शाकपाकादिकं निन्द्य योऽन्नमद्यात्स्वकीयम् । क्वचिच्छिष्टान्नमश्नीयाद्वत्सराभ्यन्तरे द्विजः ॥१७७॥ 'यद्य कत्र पचेदाममात्मनश्चापरस्य च । यस्तदन्नं द्विजो भुङ्क्ते. प्राजापात्येन शुध्यति ॥१७८॥ । न चैकत्र पचेदामं वहूनामथ वा द्वयोः । निषेधोऽयं परेषां तु पुत्रादीनां न हि कचित् ।।१७६॥ । एवं भुक्त्वा द्विजश्चैव श्रुत्वा श्राद्धस्य वै कथाम् । श्रुतिस्मृतिपुराणोक्तमितिहासं पुरातनम् ॥१८०| घटिकैकाऽवशिष्टा स्याद्रवेरस्तमितस्य च । प्रक्षाल्य पाणिपादं च द्विराचान्तः शुचिर्भवेत् ॥१८१।। प्राङासीनः समाचम्य प्राणायामपुरःसरम् । पूर्वोक्तविधिना चैव सायंसन्ध्यां समाचरेत् ॥१८२|| iआदित्येऽस्तमिते यावत्तारकादर्शनं न हि । सायंहोम तदा कुर्यानो चेत्स्युर्नव नाडिकाः ॥१८॥ । चैश्वदेवं पुनः सायं कुर्याद्यज्ञत्रयं च हि । दैवं भूतं तथा पत्र्यं भुक्त्वा स्वाध्यायमभ्यसेत् ।।१८४॥ ततः स्वपेद्यथाकाम न कदाचिदुदक्शिराः । एतावन्नैत्यक कर्म प्रवदन्ति मनीषिणः ॥१८॥ अनेन विधिना यस्तु नैत्यकं कुरुते द्विजः । स याति परमं स्थानं पुनरावृत्तिदुर्लभम् ।।१८६॥ प्रत्यहं कर्मणो योगः स्वाध्यायाभ्यसनं तथा । मनःस्वस्यतया योगः स एवाऽऽत्मप्रकाशकः ॥१८७॥ त्यक्त्वेन्द्रियसुखं लोके यस्तिष्ठेद्यत्र कुत्रचित् । स एव योगी मुक्तः स्वात्सर्वसङ्गविवर्जितः ॥१८॥ यः क्वचिन्मानवो लोके वाराणस्यां त्यजेद्वपुः । सचाप्येको भवेन्मुको नान्यथा मनुयो विदुः ॥१८६।। इत्याश्वलायनधर्मशास्त्रे ब्रह्ममागांचाराध्यायः ॥ १ ॥ ।
% 3D । (अथ स्यालीपाकप्रकरणम् २). i i । स्थालीपाकस्य चाssरम्भः पौर्णमास्यां विधीयते । अग्निमान्प्रतिपद्य व प्रातरौपासनं चरेत् ॥१॥ प्रातरौपासनं हुन्वा ततोऽन्वाधानमाचरेत् । स्थालीपा करिष्येऽहं होमः श्वः प्रातरेव हि ॥२॥ सद्यस्कालो भवेद्यद्वा कुर्याद्यत्र द्वयं न हि, । अन्वाधानं ततः कुर्यात्स्थालीपार्क तथैव हि ॥३॥ । प्राणानीयम्य संकल्प्य विधीय स्थण्डिनं शुचिः । हस्तमात्रं चतुष्कोणं गोमयेन विलिप्य च ॥४॥ तण्डुलान्प्रकिरेनेखामुदक्संस्था लिखेदय । प्रासंस्थे पार्श्वयोमध्ये तिस्रश्चैवोदगायताः ॥५॥ निदध्याच्छकलं तत्र प्रोक्ष्य प्राग्रं निरस्य च । प्रोक्ष्य पुनरद्भिश्च तथा चानलमानयेत् ॥६॥ . CC.0- Jangamwadi Math Collection. Digitized by eGangotri