पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानवादेऽज्ञान विषयनिरूपणम् 31 स्वप्रकाशत्वविरुद्धे योग्यत्वायोग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम् ? न चाज्ञानादिमत्त्वेनापरोक्षव्यवहारयोग्यत्वं स्वरूपेण च तदयोग्यत्वमित्यविरोध इति वाच्यम् ; स्वरूपस्याप्रकाशत्वा- पातादिति – निरस्तम् । परिपूर्णाद्याकारेणेदानीं व्यवहारा - भावेऽपि अपरोक्षव्यवहारयोग्यत्वानपायात् । न चैवं - सुखा- देरज्ञानावच्छिन्नचित्प्रकाश्यत्वे 'सुखादिकं न प्रकाशते' इत्यनुभवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थं चितोऽ- ज्ञानानवच्छेदेन प्रकाशोऽङ्गीकरणीय इति – वाच्यम् ; इष्टा- पत्तेः, अनुक्तोपालम्भनत्वात् । न ह्यज्ञानावच्छेदेन चित् प्रका- शत इति ब्रूमः । अत एव च - नित्यातीन्द्रियेऽप्यज्ञानाव- च्छेदकतया अपरोक्षव्यवहारण तत्रापि स्वप्रकाशापत्तिरिति- निरस्तम् ; अज्ञानानवच्छेदेन तादृशस्य व्यवहारस्योक्तेः । ननु – प्रदीपावारकघटादिवच्चैतन्यावारकाविद्या चैतन्यस्यान्य- -- तीति व्यवहारेत्यर्थः । व्यवहाराभावेऽपि - भातीतिव्यवहाराभावेऽपि । योग्यत्वानपायादिति । योग्यत्वं चामानापादकाज्ञाननाशकवृत्तिं प्रति कदाचिद्विषयत्वमिति भावः । अज्ञानानवच्छेदेन अज्ञानान्यावच्छेदे- नापि । तत्रापि - नित्यातीन्द्रियेऽपि । परमाण्वज्ञानं भातीति व्यव हारयोग्यत्वस्य फलव्याप्यत्वाभावरूपावेद्यत्वस्य च सत्वात्तत्रापि स्वप्र- काशत्वापत्तिरिति भावः । अज्ञानानवच्छेदेनेति – आज्ञानादिविषयतया भातीतिव्यवहारयोग्यत्वव्यावृत्तस्येत्यर्थः । तादृशव्यवहारस्य भातीति व्यवहारयोग्यत्वस्य । उक्तवृत्तिविषयत्वरूपयोग्यत्वस्येति समुदायार्थः । यथाश्रुतं फलव्याप्यत्वाभावविशिष्टस्याज्ञानानवच्छेदेन भातीति व्यव- हारयोग्यत्वस्य सुखादावपि सत्त्वात्तत्रापि स्वप्रकाशत्वापत्तेरसङ्गतम् । अत एव मिथ्यात्वानुमानहेत्वस्वप्रकाशत्वविवेचने योग्यत्वमुक्तरूपमेबो-