पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 सव्याख्यायामद्वैतसिद्धौ - [ प्रथम: संबन्धं प्रतिबधातु अन्यं प्रति चैतन्यमाच्छादयतु, न तु चैतन्यं प्रत्येव चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा, नहि दीपो घटावृतोऽपि स्वयं न प्रकाशते; तमःसंबन्धा- पातात्, न च–कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्य- माच्छादयतीति – वाच्यम्; आवरणं विना भेदकल्पनस्यैवा- योगात्, यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाच्चेति – चेन्न; कल्पित - भेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वात् । न च -भेदकल्प- नस्यावरणोत्तरकालीनत्वादिदमयुक्तमिति – वाच्यम्; भेदावर णयोरुभयोरप्यनादित्वेन परस्परमानन्तर्याभावात् । यच्चोक्तं - यो मोक्षे भावी चैतन्यं प्रति प्रकाशस्तदभाव इदानीमज्ञानसाध्य इति तन; मोक्षे जन्यस्य चैतन्यप्रकाशस्याभावात्, कल्पित भेदापगमे शुद्धचैतन्यं प्रतीव प्रकाशस्य जीवं प्रत्यपि संभवात् । यच्चोक्तं - प्रकाशस्वरूपे चैतन्ये कथमज्ञानम् ? न ह्यालोके तम इति, तन्न; अज्ञानतमसोर्विरोधितायामनुभवसिद्धवि- शेषात् । तथाहि —'त्वदुक्तमर्थ न जानामि' इति प्रकाशमाने वस्तुन्यज्ञानस्यानुभवात्स्वरूपचैतन्यं साक्षी वा अज्ञानाविरोधि', तमसस्त्वालोके सत्यननुभवादालोकमात्रं तद्विरोधि । वस्तुतस्तु तमिति ध्येयम् । तदभावस्येति । चिन्मात्रं प्रतीत्यादिः । ननु - नित्यप्रकाशो न जीवं प्रति प्रसक्तः ; भेदापगमे शुद्धं प्रत्येव तस्य दृष्टत्वात्, तथाच जीवं प्रत्यावरणकल्पना व्यर्था, तत्राह कल्पित- भेदापगम इति । जीवं प्रत्यपीति । इदानीमित्यादिः । तथाच शुद्धं प्रति प्रसक्तया तदभिन्नमीशं प्रतीव जीवं प्रत्यपि प्रसक्तिरिति भावः । स्वरूपचैतन्यं साक्षी वेति । साक्षी शुद्धचिदपि नाज्ञानविरोधी, नाज्ञानविरोधि. 1