पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 सव्याख्यायामद्वैत सिद्धी [ प्रथम. दिति चेन; नास्ति न प्रकाशत इति व्यवहार एवाभिज्ञादिसा- धारणः, अस्ति प्रकाशत इत्येत व्यवहाराभावो वा आवरणकृत्यम् । 4 कृत्यसत्त्वादित्यादिः । अभिज्ञादीति । वृत्तिज्ञानाभिलापादीत्यर्थः । असत्त्वापादकाज्ञानावच्छिन्नचिद्रूपं नास्तित्वं अभानापादकाज्ञा- नावच्छिन्नचिद्रूपोऽप्रकाशश्च नास्ति न प्रकागत इत्याकारका- विद्यावृत्तिविषयः । अस्ति प्रकाशत इतीति । उक्ताज्ञानाभा- वविशिष्टचिद्रूपमस्तित्वं प्रकाशश्वास्ति प्रकाशत इत्याकारवृत्तेर्विषयः । सा चोक्ताज्ञानविशिष्टचिदुपलब्ध्यभावकरणिका । तत्रास्मन्मते यद्यपि प्रतियोग्युपलब्धिसत्त्वेऽपि तदभावसत्त्वादभावस्य 2 घीप्रसङ्गेन प्रति- योग्युपलब्धे: कारणगतशक्तिविघटकत्वरूपप्रतिबन्धकत्वस्य स्वीकारा- द्धटाद्यभावविशिष्टबोधे घटायुपलब्घेरुक्तप्रतिबन्धकत्वम्; तथापि प्राती- तिकस्याज्ञानादेरभावविशिष्ट बोषेऽज्ञानादिसंबन्धस्यैवोक्त प्रतिबन्षकत्वसं भवात् अज्ञानाभावोपहितचिदाकारवृत्तावज्ञानोपहितचित उक्तप्रति- बन्धकत्वात् उक्तवृत्त्यभावस्याज्ञानचित्संबन्धरूपावरणप्रयुक्तत्वादुक्तावर- णकृत्यत्वमव्याहतम् ॥ , न चोक्तवृत्तर्नाविद्यावृत्तित्वम् ; ब्रह्म भातीति व्यवहारकालेs- विद्याया अभावात्, नाप्यनुपलब्धत्वम् ; प्रतियोग्य नुपलब्धेरहेतुत्वस्या- नुपदमुक्तत्वात् प्रतिबन्धकस्य सिद्धान्ते विघटितशक्तिकान्न जायते विपरीताच्च जायत इति कार्याभावप्रयोजकत्वस्वीकारेऽपि प्रतिबन्ध- काभावस्य हेतुत्व स्वीकारादिति – बाच्यम्; प्रतियोग्युपलब्ध्यभावाज- न्याऽपि मनोवृत्तिरुक्ताभावकालीन कारणजन्येत्यनुपलब्धत्व रूपवैजा त्यस्य तत्र संभवात्तादृशवैजात्यावच्छिन्नं प्रत्युपलब्ध्यविघटितकारणशक्तेः प्रयो- जकत्वेनानुपलब्धिहेतुत्वेन तद्व्यवहारस्यापि संभवात् । उक्तवृत्तेः - 1 कृत्य सत्त्वादिति शेषः-ग. 2 सत्वेऽपि तदभावस्य धीप्र क. 3हेतुकत्वेन-ग. 3 -