पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27 तस्याज्ञानकल्पितत्वात्, अप्रसक्तप्रकाश त्वेनावरणकृत्याभावाच्च । - · , ननु – किमावरणकृत्यं (१) सिद्धप्रकाशलोपो वा, (२) असि- द्धप्रकाशानुत्पत्तिर्वा, (३) सतः प्रकाशस्य विषयासंबन्धो वा, (४) प्राकट्याख्य कार्यप्रतिबन्धो वा, (५) नास्ति न प्रकाशत इति व्यवहारो वा, (६) अस्ति प्रकाशत इति व्यवहाराभावो वा, (७) नास्तीत्यादिव्यवहारयोग्यत्वं वा, (८) अस्तीत्यादि- व्यवहारायोग्यत्वं वा । नाद्यद्वितीयौ; स्वरूपप्रकाशस्य नित्य- सिद्धत्वेन तल्लोषानुत्पन्योरसंभवात् तदन्यस्य च स्वप्रकाशे तस्मिन्ननपेक्षितत्वात् । न तृतयः; ज्ञानस्य विषयसंबन्धक- स्वभावत्वात्, स्वयं ज्ञानरूपत्वेन त्वन्मते संबन्धानपेक्षणाच्च । नापि चतुर्थः; त्वन्मते चैतन्यातिरिक्तस्य तस्याभावात् । नापि पञ्चमः; सुषुप्तौ व्यवहाराभावेनानावरणापातात् । नापि षष्ठः; व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सन्चात्, वृत्तेश्च मोक्षेऽप्यसत्त्वात् । अभिलपनरूपत्वे मोक्षेऽप्यावरणप्रस- जात् । नापि सप्तमाष्टमौ; तयोरप्यारोपितत्वेनावरणं विनायोगा- परिच्छेदः] अज्ञानवादेऽज्ञान विषय निरूपणम् अज्ञानकल्पितत्वात् अज्ञानप्रयुक्तत्वात् अज्ञाननाशनाश्यत्वादिति यावत् । तथाचाज्ञानस्यामिथ्याविषयकज्ञाननिवर्त्यत्वेना मिथ्याविषयकत्वमा- वश्यकमिति भावः । एतेन - अज्ञानस्याश्रयत्वमिव विषयत्वमपि जीवे आस्तामप्येतस्य सदा प्रकाशमानत्वान्न तत्र तत्, तर्हि स एव हेतु- र्वाच्यः नाज्ञानकल्पितत्वमित्यादि – परास्तम्; 'तमेव विदित्वाऽति- मृत्युमेति ' इत्यादिश्रुतेः शुद्धज्ञाननिवर्त्यत्वेनावगताज्ञानस्य शुद्धविषयक - त्वौचित्ये प्रकृते तात्पर्यात् । तल्लोपानुत्पत्योः – तल्लोपतदुत्पत्त्यभा- वयोः । असंभवात् अप्रसिद्धेः । त्वन्मते त्वदभ्युपगते शुद्धचैतन्ये । व्यवहाराभावेन व्यवहाररूपकृत्यस्याभावेन | आवरणप्रसङ्गादिति । - , ,