पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानवादेऽविद्याया वाचस्पतिसंमतजीवाश्रयत्वोपपत्तिः भावमात्रेण तदुपपत्तेः, घटतदवच्छिन्नाकाशयोरिव प्रमाण- प्रमेययोरिव च । तदुक्तम्- 25 “ स्वेनैव कल्पिते देशे व्योनि यद्वइटादिकम् । - तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः " ॥ इति ॥ एतेन – यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अ दोषत्वम्, तदा चैत्रमैत्रादेरन्योन्यारोहणाद्यापत्तिः - इति निर- स्तम् ; परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात् । न चेश्वरजीव- योरीश्वरजीवकल्पितत्वे आत्माश्रयः, जीवेशकल्पितत्वे चान्यो- न्याश्रयः, न च शुद्धा चित् कल्पिका, तस्या अज्ञानाभावा- दिति – वाच्यम्; जीवाश्रिताया अविद्याया एव जीवेशकल्प- कत्वेनैतद्विकल्पानवकाशात् । तस्माज्ञ्जीवाश्रयत्वेऽप्यदोषः ।। इत्यद्वैनसिद्धावज्ञानस्य जीवाश्रयत्वोपपत्तिः ॥ - , , , व्यावर्तकत्वरूपस्योपाधित्वस्य स्वाश्रयं प्रति स्वीकारेऽपि स्वस्मिन्नविद्याया आश्रयत्वास्वीकारादिति भावः । देशे - प्रदेशे, स्वावच्छिन्न इति यावत् । अविद्याया एवेत्येवकारो हेत्वर्थः । नैतदिति । जीवेशौ प्रति कल्पकत्वं कल्पनाजनकत्वम् जनकत्वमात्रम् द्रष्टृत्वं वा । आद्ये अविद्यावृत्तिरूपकल्पनां प्रत्यविद्याया एव दोषतया उपादानतया च हेतुत्वम् । द्वितीयं तु नाभ्युपेयते; जीवेशयोरनादित्वात् । तृतीये तूभयोरपि स्वरूपतः स्वप्रकाशत्वम्, न तु दृश्यत्वम् ; अविद्याविषयत्वेन स्वस्याविद्याश्रयत्वादिना जीवादेर्द्रष्टत्वं त्वीशे स्वरूप चैतन्येन ( न ) त्वविद्यावृत्त्येति ईशस्याविद्यानाश्रयत्वेऽपि तदुपपद्यते । जीवे त्वविद्या-