पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः वा, तत्कल्पितभेदं वा जीवः । तथाचान्योन्याश्रय इति चेन्न; किमयमन्योन्याश्रय उत्पत्तौ, ज्ञसौ, स्थितौ वा, नाघः; अना- दित्वादुभयोः । न द्वितीयः; अज्ञानस्य चिद्रास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः; स किं परस्परा- श्रितत्वेन वा, परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्त्र ; उभयस्याप्यसिद्धेः । अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थिति- कत्वेsपि चित्यविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । नचै- वमन्योन्याधीनताक्षतिः; समानकालीनयोरप्यवच्छेद्यावच्छेदक- अथाज्ञानवादेऽविद्याया वाचस्पतिसंमतजीवाश्रयत्वोपपत्तिः ॥ -| तत्कल्पितभेदं—तथा कल्पित ईशस्य भेदो यत्र तच्चैतन्यम् । चिन्नास्यत्वेऽपि – साक्षिरूपजीवभास्यत्वेऽपि । चितेः – जीवस्य । - तदभास्यत्वात् – अविद्याभानरूपसाक्षिजन्यभानाविषयत्वात् । चिदा- श्रयत्वे —जीवाश्रितत्वे । चिदधीनस्थितिकत्वे - - जीवनियमित स्थितिकत्वे, जीवान्यावृत्तित्वे इति यावत् । तदधीनस्थितिकत्वयोः- तक्ष्न्यावृत्तित्वयोः । जीवस्य शुद्धचिद्वृत्तित्वान्नाविद्यान्यावृत्तित्वमिति भावः । अन्योन्याधीनता - अविद्यानाशस्य जीवनाशव्यापकत्वेना- विद्याया जीवोपाधित्वेन वा अन्योन्याधीनता । तत्राद्यमाह- समानकालीनयोरिति । व्याप्यव्यापकभावापन्नयोरित्यर्थः । यदा यदाऽविद्या तदाऽवश्यं जीव इति व्याप्तावपि जीवनाशस्याविद्यानाश- व्याप्यता संभवति, सा च न क्षतिकरीति भावः । द्वितीयेऽपि न क्षतिरित्याशयेनाह – अवच्छेद्यावच्छेदकेति–उपहितोपाधीत्यर्थः । स्वोपहितेऽपि जीवेsविद्याया आश्रयत्वं संभवति; विद्यमानत्वे सति 1 यद्वा-ग.