पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ [प्रथमः प्रकाशशब्दवाच्यत्वात् अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुः पर्यवसितः। विपर्ययविषयस्तु नाज्ञातः ; विपर्ययान्यकालासवेन तस्यानिर्वचनीयस्य मानगोचरत्वाभावेन प्रकाशप्राकालसन्च- घटिताप्रकाशितत्वासंभवात्, अत एव स नाप्रकाशविरोधी; स्वविषये अप्रकाशाभावात्, अधिष्ठानाप्रकाशस्तु तस्य जनक एव । स्मरणे च व्यभिचाराभावः स्पष्टः । अनुकूलतर्कश्च 'त्वदुक्तमर्थ न जानामी'ति प्रतीत्यन्यथानुपपत्यादिरूपः प्रागुक्त मिति यावत् । वाच्यत्वात् अनादिसङ्केतविषयत्वात् । उक्तगोचर- त्वस्याधुनिकप्रकाशपदसङ्केतविषयत्वस्य च सन्निकर्षादौ व्यभिचारित्वे- नोक्तवाच्यत्वमेवोपसंहृतम् । प्रकाशत्वादिति । यद्यपि विरोधित्वान्त. एव हेतुः, तथापि विरोधित्वं नाशकतावच्छेदकरूपम् ; तच्च प्रमात्व- मालोकत्वं चोक्तावच्छेदकत्वेनानुगतं हेतुः । ज्ञानत्वमालोकत्वं चं प्रकाशपदवाच्यतावच्छेदकत्वेनाद्यहेतौ प्रविष्टमिति ज्ञापयितुं प्रकाशत्वा- दित्युक्तम् । तावता च पक्षीभूतप्रमादृष्टान्तीभूता लोकयोरन्यतरत्वं वा हेतुरित्यपि सूचितम् । सत्यन्तव्यावर्त्यमाह - - विपर्ययेत्यादि । नाज्ञातः– नोक्ता प्रकाशितः । घटितेति व्याप्तेत्यर्थः । एवेत्यादि । तथाच सत्यन्तं द्वितीयहेतौ न देयमिति भावः । जनक एवेति । न नाश्य इति शेषः । स्पष्टः - द्वितीयहेतौ स्पष्टः । प्रमात्वस्य विरोधितावच्छेदकस्य स्मरणावृत्तित्वात्प्रथमहेतावपि प्रत्यक्षा- दिगृहीतार्थक शब्दादिवृत्तौ व्यभिचारवारणाय न प्रकाशत इति व्यव हारगोचरस्य नाशं द्वारीकृत्य प्रकाशत इति व्यवहार प्रयोजकत्वस्य सत्यन्तेन वाच्यत्वाद व्यभिचारः । विशेष्यदलं तु सन्निकर्षादिवारणा- येति' बोध्यम् । न चासिद्धिः; न प्रकाशत इति व्यवहारगोचरत्वेन Mere अत - येवेति-ग. 416 -