पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान - अनुमानोपपत्तिः तथापि प्रकाशकशब्देन शास्त्रे सर्वदेशकालयोर्वा व्यवाहियमाणत्वं तद्विवक्षितम् । अथवाऽस्तु साधारणम् । अप्रकाशितार्थगोच- रेति विशेषणाव्यभिचारव्युदासः । अप्रकाशितत्वं च 'न प्रकाशत इति' व्यवहारगोचरत्वम्, तच्च स्वप्रकाशचैतन्येऽप्य- स्तीत्युपपादितम् । एवं निरुक्ताप्रकाशविरोधित्वमपि ज्ञानालो- कयोः प्रत्यक्षसिद्धम् । उक्तं च विवरणे –'ज्ञानप्रकाश्यत्वा- दज्ञानविरोधित्वादन्यदेवालोकप्रकाश्यत्वं तमोविरोधित्वं नामे - ति । अत उभयोरेव साक्षादप्रकाशविरोधित्वसंभवा भेन्द्रिय- सन्निकर्षादौ व्यभिचारः । एवं चाप्रकाशितार्थगोचरत्वे सति - 415 COPEN प्रकाशशब्देन लक्षणया ज्ञानालोकभिन्नेऽपि व्यवहारादाह - सर्वदेशकालयोरिति । सर्वदेशेषु व्यवद्दियमाणत्वं व्यवहारयोग्यत्वम्, प्रकाशपदस्यानादिसङ्केतत्वमिति यावत् । विशेषणादिति । अप्रका शितार्थगोचरत्वं अप्रकाशितार्थे प्रकाशत इति व्यवहारस्य प्रयोजकत्वम् ; तच्च अज्ञाननाशद्वारा ज्ञाने, तमोनाशाषीनचाक्षुषद्वारा आलोके च बोध्यम् । तेनालोकस्य विषयरूपगोचराप्रसिद्ध्या न साधनवैकल्यम् । चैतन्येऽपीति । न प्रकाशत इति व्यवहारः प्रकाशविरोध्याश्रय- विषयकः, तादृशाश्रयत्वं च यद्यपि तमोऽज्ञानयुक्ततयालोकज्ञानयोः, तथापि तदवच्छेदकत्वाद्धटादावपि न प्रकाशत इति व्यवहार इति भावः । निरुक्तेति । न प्रकाशत इति व्यवहारगोचररूपेत्यर्थः । ताह- शोऽप्रकाशस्तद्विरोधित्वमित्यर्थः । ज्ञानप्रकाश्यत्वात् ज्ञानप्रयुक्तनाश- वत्त्वात् । अज्ञानविरोधित्वात् । अज्ञानस्य नाश्यत्वरूपविरोधित्व- घटिताज्ञानप्रयुक्ताज्ञाननाशवत्त्वपर्यवसितादिति यावत् । तमोविरो- धित्वं – तमसो नाशत्वेन घटितमालोकप्रयुक्ततमोनाशवत्त्वपर्यवसित- 1 सङ्केतवत्त्वमिति -ग.