पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 402 प्रथमः भिप्रेत्य वार्तिककारपादैः सौषुप्ताज्ञानस्मरणमपाकृतम् । तथा चोक्तम्- 'न सुषुप्तिगविज्ञानं नाज्ञ । सिषमिति स्मृति: ! कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् || न भूतकालस्पृक्प्रत्यक् न चागामिस्पृगीक्षते । स्वार्थदेशः परार्थोर्थो विकल्पस्तेन स स्मृतः ॥ इत्याद्यव्याकृतप्रक्रियायाम् । विवरणकारैस्तु – 'अभावप्रत्यया- - वृत्तिः; सुषुप्तिकालमात्रगताया एकस्म्या वृत्तेः स्वीकार इति भावः । सुषुप्तिगेति — सुषुप्तिकालमात्रगतेत्यर्थः । एकेवाविद्यावृत्तिरविद्याविष यिणी सुषुप्तयादिकालस्थायिनी न तु सुषुप्तिकालमात्रगता काचन वृत्तिः ; यन्नाशात्म्मरणमित्यर्थः । अथवा प्रलये सुषुप्तौ च न वृत्ति - रित्याशयेन प्रलयोपममित्युक्तत्वाद्विज्ञानं जन्यज्ञानं सुषुप्तिगं नेत्यर्थः । कालाद्यव्यवधानत्वात् सुषुप्तिजाग्रत्कालयोः संस्कारकालव्यवधाना- भावात् । ननु – सौषुप्तवृत्तिनाशाभावेऽपि सुखादाविव विषयनाशा- द्विषयावच्छिन्नज्ञाननाशात्मृतिरस्तु, तत्राह – न हीति । आत्मस्थं अज्ञानम् । अतीतभाक् अतीतताभाक् | हेतुमाह - न भूतेति । प्रत्यक् अज्ञानोपहितसाक्षी । तेन उक्तहेतुना | विकल्पः न तु स्मृतिरूपो निर्विकल्पः । सः नावेदिषमिति प्रत्ययो विकल्पतां घटयति, यतस्तस्य प्रत्ययस्य स्वार्थदेशः स्वार्थाधिकरणकः परार्थोऽर्थः विषयः अज्ञान- रूपस्वविषयाधिकरणको ज्ञानविरोधित्वादिरूपः परार्थोऽज्ञानभिन्नार्थो विषय इति यावत् । अथवा विकल्पो भ्रमो यतः स्वार्थज्ञाना दिनिष्ठतया परार्थः स्मृतिविषयतायोग्योऽतीतकालो विषय इत्यर्थः ॥ | कालावस्थायिनी ग 2 स्वार्थाज्ञाना- ग.