पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान प्रत्यक्षापपत्तिः 397 - तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किमिति संस्कारो जन्येत १ न हि संस्कारोऽपि प्रत्यक्षः, येन कार्यान्यथानुपपत्ति- मन्तरेणाप्यभ्युपेयते ; सौषुप्तं चानाद्यज्ञानोपरक्तं साक्षिचैतन्य - रूपं ज्ञानं स्वतो वा उपाधितो वा न विनश्यतीति संस्कारं कथं जनयेत् १ तदभावात्कथं स्मर्येत १ अस्मर्यमाणं वा कथं प्रमाणत्वेनोदाहियेतेति – चेत्, न तावदनुमानं तत्र संभवति ; हेतोः पक्षविशेषणस्य चाज्ञानात् । न हि ज्ञानाभावमन्तरे- णावस्थायां विशेषो वक्तुं शक्यः | ज्ञानसामग्रीविरहश्च ज्ञाना- भावानुमेयत्वेनान्योन्याश्रयग्रस्तः । न चेदानीन्तनेनेन्द्रियप्रसा- देन पूर्वकालीनं तदुपरममनुमाय सामग्रीविरहानुमानम् ; इन्द्रि- यप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वासिद्धेः । निय- ज्ञापनाय, न तु हेतौ प्रविष्टम् । किमितीति । स्मृतेः स्मृतित्वादेवानुभ- वेन स्वयमेव जनयितुमशक्यत्वात् संस्कारः स्मृत्युपधायकतया सार्थकः, ज्ञापनस्य नाशे सति तु स एव संस्कारो लाघवादिति नेदं पुरोक्तं युक्तमिति ध्येयम् । स्मर्येतेति । अज्ञानमित्यादिः । वक्तुं शक्य इति । नच प्राज्ञपरिष्वङ्गरूपा सुषुप्तिः श्रुत्यैव बोध्यत इति वाच्यम् ; सौषुप्तानुभवसिद्धस्यैव श्रुत्याऽनुवादात् श्रुत्यप्रतिसन्धानकालेऽपि न किंचिदवेोदिषमिति प्रत्ययाच्च । सुखानुभवेति । सुषुप्तावपि स्वरूप- सुखानुभवोऽस्तीति स एव प्रसादहेतुः । न च स्वरूपसुखा- नुभवस्य जागरेऽपि सत्त्वादिन्द्रियो परमकालीनस्यैव तस्य प्रसादहेतुत्व- स्वरूपसुखाकारवृत्तेः प्रसादहेतोः समाध्युत्तरकाले च सत्त्वेऽपि प्रसादस्यापि तदा सत्त्वादुक्तविशेषणा- 23 १ दानात्सुखानुभवोत्तरकालीनत्वस्यैव प्रसादत्वेन तत्रेन्द्रियोपरमस्याप्रयो 3 परोक्तं-ग. स्मृतित्वेनानुभवस्य स्वयमेव - ग. 2 - मिति -- वाच्यम्; चित्तावैयग्रयकाले ज्ञानस्य -ग. .