396 सव्याख्यायामद्वतसिद्धौ [प्रथम: ज्ञाने संभवात् स्पष्ट एव व्याघातः, भावरूपाज्ञानपक्षे तु सर्व- स्यापि साक्षिवेद्यतया न व्याघात इत्युक्तम् । तदेवं त्वदुक्तमर्थ न जानामी 'ति प्रत्यक्षं भावरूपज्ञानविषयमिति सिद्धम् ॥ एवं 'एतावन्तं कालं न किंचिदवेदिष' मिति परामर्श- सिद्धं सौषुप्तं प्रत्यक्षमपि भावरूपाज्ञानविषयमेव । ननु - परामर्शः किमनुमानं, किंवा स्मरणम् । आद्ये ज्ञानाभाव एवानुमीय- ताम्, किं भावरूपाज्ञानेन; तथाहि --संप्रतिपत्रोदयास्तमय- कालवद्विवादपदयोरप्युदयास्तमययोरन्तराळकालमनुमाय तत्का- लमहं ज्ञानाभाववान्, अवस्थाविशेषवत्वात् ज्ञानसामग्रीविरह- वत्त्वात्, तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमे - नास्मर्यमाणत्वाद्वेति प्रयोगसंभवात्, द्वितीये तु नास्त्युपपत्तिः; संस्कारासंभवात्, विनश्यदेव हि ज्ञानं संस्कारं जनयति ; विना व्यापार व्यवहितकार्यजननाक्षमत्वात् । अविनश्यता तु संभवात् प्रमात्वाग्रहेऽपि तदंशे तत्प्रकारकत्वे बाघकाभावादिति भावः । परतः प्रामाण्यमते क्वचित्प्रामाण्यसंशयस्योपपत्तये प्रथमानु- व्यवसायसामग्रयादेः प्रामाण्यग्रहप्रतिबन्धकत्वकल्पनात्स्वतः प्रामाण्ये- - त्युक्तम् । 'घटं जानामी ' त्यत्रेव 'तदुक्तं ' घटं न जानामत्यित्र स्वरूपतो घटत्वं भाति, घटश्च तेन रूपेण विशेषणम्, तथाच तेन रूपेण ज्ञानस्य कारण स्यापेक्षायां त्वदुक्तार्थविशेषं न जाना मीत्यत्रापि स्वरू- पतो विशेषस्य भानात्स्वरूप तस्तज्ज्ञानस्यापेक्षायां च व्याघातो गूढ इति सूचयति - स्पष्ट इति । तत्कालमहं तत्कालावच्छिन्नोऽहम् । तद्वत्तया ज्ञानवत्तया | नियमेन सर्वदा । स्मर्यमाणेऽपीत्यन्तं यदि तत्कालमहं ज्ञानवान् स्यां तदा तद्वत्तया स्मर्यमाणः स्या' मित्यादितर्क-
' 1 त्वदुक्तघटं न जानामीत्यत्रेव त्वदुक्तं - ग. " तज्ज्ञानकारण - ग.