परिच्छेदः] 361 विलक्षणत्वेन सत्प्रतिपक्षत्र, भावत्वस्योपाधित्वं च । न चाभाव- विलक्षणाविद्यादौ भावविलक्षणत्वमसंभवि, परस्परविरोधा- दिति वाच्यम्; भावत्वाभावत्वयोर्बाधकसत्वेन तृतीयप्रकारत्व- सिद्धौ पर स्परविरहव्यापकत्व रूपविरोधासिद्धेः परस्परविरह- व्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति । न हि गोत्वविरहोऽश्वत्वमाक्षिपतीत्युक्तम् । न चात्मवदनादेरभाव- विलक्षणस्यानिवर्त्यत्वम्; आत्मत्वस्यैवोपाधित्वात् । न चात्य- न्ताभावान्योन्याभावयोः साध्याव्याप्तिः; अधिकरणातिरिक्त- स्यानिवर्त्यस्यात्यन्ताभावादेरनभ्युपगमात् । न च तुच्छे साध्या- व्याप्ति:; अभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्यव्यापकत्वोप- अविद्यालक्षणोपपत्तिः , " कार्यस्य प्रागभावेऽनादित्वव्याप्यतया गृहीतेनेत्यादिः । अजामेकामित्या- "दिकं प्रकृतिपरम्, अनादिमाययेत्यादि चेश्वरेच्छापरम्, अतो न शास्त्र- विरोध इति तु न युक्तम् ; मन्मते दृश्यमात्रस्यैव ज्ञाननिवर्त्यत्वेन प्रकृत्यादावपि सादित्वस्य त्वयानुमेयतापत्तेः । बाधकसत्वेनेति । विनाशिभावस्य सादित्वनियमो भावत्वे उपादानत्वादिकमभावत्वे बाघक- मिति भावः । वस्तुतो भावत्वाभावत्वे सदसद्रूपत्वे । आद्ये बाध्यत्वादि द्वितीये जनकत्वादि बाधकम् । अत एवाभावावलक्षणत्वस्य तुच्छव्या- वृत्तत्वं वक्ष्यते । अभावत्वधर्माश्रयविलक्षणत्वं तु तुच्छेऽप्यस्तीति तदसङ्गतिः । अत एव च सद्विलक्षणयोरज्ञानभ्रमयोोरत्यादि वक्ष्यते । यत्तु - तृतीयप्रकारसिद्धौ सत्यां विराधासिद्धिः तस्यां च सत्यां सेत्यन्योन्याश्रय इति – तन्न; तृतीयप्रकारसिद्धेर्बाधक सत्वाधीनत्वेन विरोधासिद्धयनपेक्षत्वात्, अन्यथा कर्मादावपि द्रव्यगुणापेक्षया तृतीयप्रकारासद्धिर्न स्यादिति भावः । अनादेरभावविलक्षणस्येति ।
1 परस्पर विरहरूपत्वपर.