पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

342 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः युक्तत्वात्, अन्यथा 'ध्रुवो राजे' त्यादावगतेः । दृष्टिसृष्टौ च 'एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ती' ति श्रुतिः सुप्तोत्थित- जीवात्प्राणादिसृष्टि प्रतिपादयन्ती प्रमाणम् । न च सुषुप्तौ प्राणादिपञ्चकस्य सत्त्वात्किमर्थं पुनः सृष्टिरिति वाच्यम्; 'न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येदि 'त्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च सुषुप्तौ हिता नाम नाड्य इति नाडीसन्त्वप्रतिपादकवाक्यविरोधः; केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां 'हिता नाम नाड्यो हृदयात्पुरीततमभि- प्रतिष्ठन्ते ताभिः प्रत्यवसृष्य पुरीतति शेते' इत्यादिना सुषु-. प्रथव्यवहितकाले क्रमोक्तये नाडीसन्त्वं प्रतिपाद्यते, न तु स्थैर्यरूपत्वादिति भावः । अगतेरिति । राजत्वाश्रयस्य देहस्य मरण- पर्यन्तं नाविच्छेदः; बाल्ययौवनादिषु हासवृद्धयादिना विच्छेदात् । अतश्चैत्रत्वाद्याश्रयदेहसन्तान विच्छेद एव स्थैर्यम् । चैत्रत्वादिकं तु कारणीभूताज्ञानावस्थाविशेषरूपत्वादनादित्वेन सुप्तिकालसत्त्वेऽपि देह- सन्तानवृत्तीति भावः । काल इति । नाडीसत्त्वमित्यत्रान्वेति । 'यदा सुषुप्तो भवति, न कस्यचन वेद, हिता नाम नाड्यो द्वासप्ततिः सहस्राणि ताभिः प्रत्यवसृप्य पुरीतति शेते, स यथा कुमारी महाराजो वा महाब्राह्मणो वाऽतिघ्नीम नन्दस्य गत्वा शयीतः एवमेवैष एतच्छेते ' इति वाक्ये ' यदा सुषुप्तः शेते' तदा एष एवमेतच्छेते । एतदिति पूर्ववाक्योक्तमाकाशशब्दित ब्रह्माधारकार्थकं शयन क्रियाविशेषणम् । कीदृशं शयनं तत्राह- यथेत्यादि शयीतेत्यन्तम् । गत्वा शयीतेति मुखं व्यादाय स्वपितीत्यादाविव शयित्वा गच्छेदित्यर्थः; अन्यथा शयनोत्तर- 1 प्राणादिप्रपञ्चस्य. 2 सन्ताना-ग. 1