पीरच्छेदः] दृष्टिसृष्टयुपपत्तिः न च – 'सोऽयं देवदत्त' इति दृष्टान्तेन तत्त्वमस्यादिवाक्ये जहदजहल्लक्षणयैक्यपरत्वोक्त्ययोग इति वाच्यम्; यद्यपि धर्म- वद्धर्म्यभेदोऽपि बाधित एवेति जहदजहल्लक्षणापि न युज्यते; तथापि यदा धर्माभेदो बाधात्र गृहीतः, किंतु धर्म्यभेद एव, तदा सोऽयमित्यादौ जहदजहल्लक्षणासंभवेन दृष्टान्तत्वोपपत्तिः । न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः; आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्, अन्यूनसत्ताक- त्वमात्रेण बाधकत्वोपपत्तेश्च । न च – साक्षात्कारस्यापि दृष्टि- सृष्टित्वेन प्रमाणजन्यत्वाभावात्तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न • स्यादिति – वाच्यम्; अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः । न च 'ध्रुवा बौध्रुवा पृथिवी • ध्रुवासः पर्वता इमे ध्रुवं विश्वमिदं जग 'दित्यादिश्रुतिविरोधः; अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टि- सृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं सन्तानाविच्छेदपरत्वस्यैव र्यानुकूलविचित्राज्ञानावस्थावत्त्वेत्यर्थः । जगदिति । 'ध्रुवो राजा विशाम- य 'मिति शेषः । अन्यथानयन इति । नित्यरूपमुख्यार्थभिन्नक'त्वक्चन इत्यर्थ: । सन्तानाविच्छेदेति । सृष्टदृष्टिपक्षे यावत्कालं पृथिव्यादि तिष्ठति तावदित्यादिः। सुषुप्तौ संस्कारानकी,कारे तु तदन्यकाल इत्यप्यादिः । एवं च सङ्क्रामोद्यतस्य राज्ञ सन्नाहने पुरोधसा कर्तव्ये विनियुक्त 'आ त्वा हर्षमन्तरेधी' त्यादिसूक्तान्तर्गतस्य राजस्थैर्याशासने विनि- . 341 युक्तस्य 'धवे' त्यादेर्यथा पृथिव्यादि स्थिरं तथा त्वं राजा स्थिरो भवेत्यर्थ इति माधवीयभाप्याधुक्तिनं विरुध्यते; सन्तान विच्छेदस्यैव 1 भिन्नार्थक-ग. 9 2 सन्ताना -ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६८
दिखावट