पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

316 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः पत्तेः । तथाच शुक्तथादिज्ञानस्य येन रूपेण निवर्तकत्वम्, तेन रूपेणात्मज्ञानस्य निवर्तकत्वम् | रूप्यादौ येन रूपेण निवर्त्यत्वम्, प्रपञ्चे तद्रूपं विनानुपपद्यमानं स्वोपपादकतया तत्र तत्कल्पयतीति सिद्धं मिथ्यात्वम् । ननु – भवेदेतदेवम् ; यद्यात्मज्ञानस्य प्रपञ्चे निवर्से शुक्तयादिज्ञानसाधारणमधिष्ठान- प्रमात्वमेवावच्छेदकमित्यत्र किंचिन्मानं भवेत् ; रूपान्तरेणापि निवर्तकत्वसंभवात्, श्रुतिस्तु द्वैतप्रपञ्चस्याद्वितीयात्मज्ञानं निवर्तक- मित्येतावन्मात्रे प्रमाणम्, न त्ववच्छेदकविशेषेऽपि । न च ज्ञान- निवर्त्यतामात्रान्मिथ्यात्वसिद्धिः; सेतुदर्शनादि निवर्त्यदुरितादिषु व्यभिचारात् । तत्र विहितक्रियात्वादिना निवर्तकत्वान्न व्यभि चार इति चेत्, प्रकृतेऽपि रूपान्तरं नावच्छेदकमिति कुतो निर- णायि | ज्ञानस्य हि स्वप्रागभावं प्रति प्रतियोगित्वेन निवर्तकता,. पूर्वज्ञानादिकं प्रति तूत्तरवर्तिविरोधिगुणत्वन, संस्कार प्रति फल- - उक्तनाश्यताकल्पनमूलकनियमेत्यर्थः । येन रूपेण निवर्त- कत्वमिति । येन प्रमात्वेन धर्मेण येन स्वसमानविषयका- ज्ञानतत्प्रयुक्तान्यतरत्वसंबन्धेन निवर्तकत्वं मिथ्यामात्र निवर्तकत्वं येन प्रयोजकी भूताज्ञाननाशद्वारा रूप्यादिनिवर्तकत्वं चेत्यर्थः । येन रूपेण निवर्त्यत्वमिति । येन मिथ्यात्वेन प्रमासामान्यनिवर्त्यत्वं येनाज्ञानप्रयुक्तत्वेन धर्मेणाज्ञानरूपप्रयोजकनाशनाश्यत्वं चेत्यर्थः । तद्रूपं विनेति । उक्तसंबन्धं विना तेन संबन्धेनोक्तद्वारं च निवर्तकत्वमनुपपन्नं; मिथ्यात्वं विना प्रमासामान्यनिवर्त्यत्वमज्ञानप्रयु- तत्वं विना तेन रूपेणोक्तनाश्यत्वं चानुपपन्नमित्यर्थः । अधिष्ठान- प्रमात्वमेवेति । उक्तान्यतरत्वसंबन्धेन प्रमात्वेन प्रयोजकीभूताज्ञान- नाशद्वारा निवर्तकत्वं न प्रपञ्चेऽस्ति; येन तत्रोक्तसंबन्धो मिथ्यात्वं वा .