पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः कृत्स्नस्यापि प्रपञ्चस्यात्मप्रमानिवर्त्यत्वे तदज्ञानकल्पितत्वमेव तत्रावच्छेदकं कल्प्यते, न त्वननुगतमाकाशत्वादि ; न वा ब्रह्मभिनत्वं सद्भिन्नत्वं वा सर्वानुगतमपि, तुच्छेऽतिप्रसक्तेः, तदारक विशेषणप्रक्षेपे तु सदसद्विलक्षणत्वरूपमिथ्यात्वमेव निव- र्त्यताप्रयोजकं पर्यवसितम्; अन्यथा नियमान्तरकल्पनागौरवा- नियमाकल्पनेनेत्यर्थः । आत्मप्रमानिवर्त्यत्वे आत्मप्रमाजन्येनात्मा- ज्ञाननाशेन निवर्त्यत्वे । तदज्ञानकल्पितत्वं तदज्ञानप्रयुक्तत्वम् । सामान्यतो मिथ्याभूतप्रतियोगिकनाशे प्रमात्वेनोक्तहेतुत्वेऽपि प्रमाविशेष- स्यैव मिथ्याविशेषनिवर्तकत्वाय यन्निष्ठेत्यायुक्तनियम मूलहेतुत्व विशेषस्येव स्वविशिष्टे प्रयोज्यनाशे प्रयोजकनाशस्यापि हेतुत्वस्य कसत्वादात्मा- ज्ञाननाशात्प्रपञ्च नाशनिर्वाहाय प्रपञ्चस्योक्तप्रयुक्तत्वं कल्प्यते । जीवेश- -भेदावेरनोदरप्यज्ञानप्रयुक्तत्वान्नाशोत्पत्तिः । प्रयोजकी भूतदण्डादेर्नाशेऽपि घटाद्यनाशात्स्वविशिष्टत्वस्य नाश्यतावच्छेदके निवेश: । निमित्तनाशो- पादाननाशोभयसाधारण्येनै कहेतुत्वलाभायोपादानत्वादि विहाय प्रयो जकत्वनिवेशः । तच निमित्तोपादानसाधारणोऽखण्डधर्मविशेषः । स्व(प्रतियोगिप्रयुक्त) प्रतियोगिकत्वसंबन्धेन नाशविशिष्टं नाशं प्रत्युक्तप्रयु- क्तत्वसंबन्धेन नाशो हेतुः प्रतियोगितासंबन्धेन कार्यत्वमिति भावः । तंत्रा- वच्छेदकं कल्प्यत इति । अवच्छेदकत्वेन क्लृप्तं तत्र कल्प्यत इत्यर्थः । आकाशत्वादीति । अनन्तकार्य कारणत्वमूलका नन्तनियमापत्तेरिति शेषः। तुच्छ इति । शुक्तिरूप्यादौ चेति शेषः । अतिप्रसक्तेरिति । तुच्छस्यानिवर्त्यत्वाच्छुक्तिरूप्यादेर्मूलाज्ञाननाशानाश्यत्वादुक्तरूपं मूला- ज्ञाननाश्यत्वाति प्रसक्तमिति भावः । निवर्त्यताप्रयोजकं प्रमाण मात्रनिवर्त्यतावच्छेदकम् । अन्यथेति । आकाशादौ सत्यत्वा जी- कारेणाज्ञानप्रयुक्तत्वमस्वीकृत्य स्वकालीन दृश्यत्वरूपव्यावहारिकदृश्यत्वस्य मूलाज्ञाननाशं प्रति नाश्यतावच्छेदकत्वस्वीकारे इत्यर्थः । नियमान्तरेति । 1 नाश्यत्वादिति - ग. 2 सत्वा-क.. 315