पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थ विचारः 309 न्घित्वेनाविद्यमानबोधकम् ; लक्षणापत्तेः । अत एवाविद्यमानं जीवस्य प्रतिभातीति जीवस्य मूढस्याविद्यमानमेव भाति, अमूढस्य तु तत्त्वमपी- त्यर्थकम् । अत एवासन्त इत्यनेन मिथ्याभूतमर्थक्रियाकारि दृष्टान्तत्वे- नोक्तम् । अत एव च स्वप्नादिसाम्यं मिथ्यात्वेन; तत्त्वनित्यत्वादिना तस्य प्रत्यक्षादिसिद्धत्वेन तदुक्तिवैयर्थ्यात् । अनित्यत्वेत्यादिवचनं त्वप्रामाणिकम् ; प्रामाणिकत्वेऽपि पारतन्त्र्यमुक्तरूपम् । बोधपदं च व्यवहारकालीनजाग्रद्बोधपरम् अत एव 'वैधर्म्याच न स्वमादिवत्' । इति सूत्रे तथोक्तम्- - ‘इन्द्रजालमिव मायामयं स्वप्न इव मिथ्यादर्शनं कदळीगर्भ इवासारं नट इव क्षणवेशं चित्रभित्तिरिव मिथ्यामनोरम ' . मिति | मैत्रायण्यादिश्रुतौ तु मिथ्यादर्शन विषयत्वेन स्वप्रसादृश्यं स्फुटम् । तेन च ज्ञानमिथ्यात्वे लब्धेऽपि ज्ञेयमिथ्यात्वलाभायेन्द्रजालह- ष्टान्तेन मिथ्याप्रकृतिकत्वं मायामयशब्देनोक्तम् । प्राकृतं तु प्रकृते न मायामय शब्दार्थः; इन्द्रजालदृष्टान्तासङ्गतेः । न हि प्रपञ्चे प्राकृतत्वसाध्यताकाले इन्द्रजाले प्राकृतत्वं सिद्धम् । मिथ्याप्रकृति- कत्वस्य प्रपञ्चे साध्यताकाले तु तदिन्द्रजाले सिद्धम्; मिथ्यात्वे- नानुभूयमानस्य शुक्तिरूप्यादेर्मिथ्या भूताज्ञानोपादा नकत्वेन क्लप्तत्वात् । मायाशब्दो लोके मिथ्यारूढ इति तूक्तमेव । अत एव ' सेयं माया भग- वतो यन्नयन विरुध्यत' इति भागवतादौ युक्तिविरुद्धस्य मायात्वमुक्तम् । भगवत इति षष्ठ्यर्थस्तु नियम्यत्वादिः । युक्तिविरुद्धस्यापि सत्यत्वे शुक्तिरूप्यादेरपि तदापत्तिः' । त्रिगुणेत्यादौ तु मिथ्या स्वरूप मायाशब्द- रूढ्यर्थस्य मिथ्याप्रकृतिकत्वेन जगत्युपपादनं कृतम् | या मूलप्रकृतिः सा मिथ्या तदुपादानकत्वात्कार्यमात्रं मिथ्येत्यर्थात् । न तु प्रकृतौ मायाशब्दरूढिरुक्ता; लोकक्लृप्तमिथ्यारूढ्यैव तस्यां श्रौतप्रयोगसंभ- वात्, रूढ्यन्तरकल्पने मानाभावात् । मायाविद्याभेदमते त्वविद्याव्या- 1 तदापत्तेः- ग. 2 मिथ्यात्वरूप- क. ग. &