पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

308 सव्यांख्यायांमद्वैतसिद्धौ [प्रथमः 1 'ज्योतींषि विष्णुर्मुवनानि विष्णु रित्यादिना ब्रह्मणः सार्वात्म्यमुक्त्वा 'ज्ञानस्वरूपो भगवान् यतोऽसावेष मूर्ति: । न तु वस्तुभूत' इत्यत्र ज्ञानरूपत्वेन तदन्यरूपस्यावस्तुत्वोक्तेः । न हि परिणामित्व रूपावस्तुस्वे उक्तहेतुसंभवः । 'तस्मान्न विज्ञानमृतेऽस्ति किंचि' दित्युपसंहाराच ‘परमार्थोऽविनाशी'त्यत्रापि परमार्थमुद्दिश्यानाशित्वविधिर्न त्वनाश्युद्देशेन परमार्थसंज्ञाविधिः। ‘परमार्थस्तु भूपाल संक्षेपाच्छ्रयता मित्यादिना पश्चा देव परमार्थप्रतिपादनप्रतिज्ञानेन पूर्व नाशित्वाद्यभावप्रतिपादनमात्रस्य परमार्थे कृतत्वात्परमार्थसारभूतं यत्तदद्वैतमशेषतः 'तत्याज भेदं परमार्थ- दृष्टि' रित्युपसंहारे परमार्थस्याद्वैतत्वेनोक्तेः परमार्थसारेत्यस्य कर्मधारयत्वा- दन्यपरमार्थत्वशङ्काविरहात् । मिथ्यापदं तु वितथे रूढम्; मृषा मिथ्या च वितथे इत्यमरात् । मिथ्यैष व्यवसाय इत्यत्रापि निश्चय एष वितथ इत्यर्थात्पदं स्वरादिदुष्टमित्यस्यापि स्वरादिदोषेण पदमाभासीकृतमित्य- र्थात् । अन्यथा दुष्टजलादौ मिथ्याजलादिव्यवहारापत्तेर्वृथायर्थ कत्ये मानाभावाच्च । अतत्वेत्यस्यापि मृषार्थत्वमेव; तत्त्वशब्दस्य सत्यरूढत्वस्य वाचारम्भणश्रुतिव्याख्याने पूर्वमुक्तत्वात् । तद्वदेवेत्या दावेवकारस्यानुषङ्गा- तद्वदेव स्थितं यत्तदेव तात्विकमित्यर्थादविकारित्वव्याप्यत्वस्य तत्त्व- रूपता यामुक्तत्वनाविरोधात् । तद्वदिति वत्यर्थस्त्वविवक्षितः; अन्यथा मेदघटितसादृश्ये सत्यपरिणामित्वस्याप्यसंभवात् ॥ अविद्यमानोऽप्यवभासतेऽर्थो ध्यातुर्षिया स्वप्नमनोरथौ यथा । अर्थे विद्यमानेऽपि संसृतिर्न निवते । छायाप्रत्याइया भासा बसन्तोऽप्यर्थकारिणः ॥ . इत्यादौ चाविद्यमानासदादिपदं प्रतिपत्नोपाधावविद्यमान रूपमिथ्यातात्प र्यकम् ; स्वभावकालीनविद्यमानसामान्यस्य मेदबोधनान्न तु जीवसंब- 1 सावशेष-ग.